पृष्ठम्:चोरचत्वारिंशीकथा.djvu/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५५


  यत्रैव मनसः कामस्तत्रैव पितृचोदना ।

 इति मवायं तत्क्षणं सानन्दं तदाज्ञाविधानोद्यतमात्मानं निवेदयामास।

 १९. अथ तौ पितापुत्रौ, निखातपूर्वाणां चोरशवानां सविध एव, अन्त- र्गर्तं तदग्रणीशरीरं शाययामासतुः । किंच तमर्थं तथा निभृतं निर्वर्तया- मासतुः, यथा नैकोऽपि प्रातिवेशिको लेशतोऽपि तदभिज्ञो बभूव । अथा- न्यस्मिन्दिवसे, तथानन्तरेषु च केषुचित्कुजहर्पणं पण्यशालामपावरितुमना- गतं प्रेक्ष्य, जनाः ‘कुत इदम् ?' इति व्यस्मयन्त । किन्तु गच्छता कालेन तद्रतं सर्वमपि तैर्विस्मृतम् ।

 २०. ततः कतिपयदिवसापगमे, मारजन्यालिपर्वणयोर्विवाहो निर्वृत्तः। तन्निमित्तं चालिपर्वणा सुसंपन्नं भोजनं ज्ञातिभ्यो दत्तम् । तथा चोक्तम्--

  संभोजनं संकथनं संप्रश्नोऽथ समागमः ।
  एतानि ज्ञातिकार्याणि न विरोधः कदाचन ॥ ४२ ॥

 तदा सर्वैरपि भणितम्-। अहो उचितमाचरितमलिपर्वणा, यज्जन्मदा- स्यापि मेधाविनी शीलवती मारजनिर्दास्यादुद्धृत्य स्नुपात्वमारोपिता । यतः संबन्धस्यास्य परमार्थहेतुस्तेषामज्ञात एवासीत् ।

 २१. अथ वर्षं यावदलिपर्वा चोरगुहां नैवागमत् । दीधेऽस्मिन्नन्तरे कामपि चोरबाधामनुपस्थितां प्रेक्ष्य भूयोऽप्यसौ वाजिना तद्रुहां प्रापत् । गुहाया निकटेऽश्वादवतीर्थ तत्र नराणां तुरगाणां वा पदमुद्रा अनालोक्य, स वीतभयमात्मानं मेने । अन्तः प्रविष्टश्च स उन्निनाय--। यदा कौशे- यभाराश्चोराग्रण्या विक्रयार्थं पुरं नीताः, तदाप्रभति न कोऽपि नरो गृहान्तः प्रविष्टः-इति ।