पृष्ठम्:चोरचत्वारिंशीकथा.djvu/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५२

नामेदम् इति । अथ प्रकाशमाह-। महानयं मयि तवानुग्रहः, यदित्थम- भ्यागतं मामाराधयितुं प्रयतसे । अतो मयापि च्छन्दस्ते न व्याहन्तव्यः ।

 १०. अतिथिना सार्धं प्रवर्तमानं स्वामिनो भाषणं समाप्तं प्रेक्ष्य, अब्दपालो मृदङ्गं वादयितुं गातुं च प्रवृत्तः। कलाकुशला च मारजनि- नर्तनपरा, गानसमकालं पादन्यासं कुर्वती, स्वामिनं स्वामिसूतनुं च भृशमावर्जयामास । कुजहर्षणः पुनः वैरसाधनमुद्दिश्य प्रबन्धकल्पनेन व्याक्षिप्तचेतास्तस्यां नात्यादृतो दृष्टः ।

 ११. अथ कंचित्कालं नर्तिचा मारजनिः, रशनागतां कृपाणीमाचकर्प । तया च कदाचित्स्वामिनः, कदाचिच्चाभ्यागतस्य वक्षो लक्षयांचकार । भूयश्च स्वकीयमप्युरः, तेन भेत्तुमिवोद्यतमात्मानमदीदृशत् ।

 १२. एवं कंचित्समयं नीत्वा सा, अब्दपालस्य हस्तान्मृदङ्गमाच्छिनत्। अथ तं वामेन पाणिना कृपाणिकां च दक्षिणेन धारयन्ती सा, अलिपर्वणः पारितोषिकं किल प्रार्थयितुं चक्राम ।

 १३. तदा परृवित्ततले तस्मिधर्मवादित्रे, अलिपर्वणा हिरण्यदीनारः पातितः। तत्तनयेनापि तथैवाचरितम् । तदालोक्य कुजहर्षणोऽपि तामा- त्मनः पुर आयान्तीं प्रेक्ष्य, निजोरसि पटान्तर्गतां धनभस्त्रिकामाक्रष्टुं प्रवृत्तः । येन तस्यै प्रीतिदानं दद्यात् । यावच्चासौ वामेन हस्तेन भस्त्रिकां धृत्वा दीनारनिष्कासनार्थं हस्तमपसव्यं तत्र प्रवेशयति, तावदेवेत्थं व्यापृतोभयहस्तं तं मारजनिक्ष्छुरिकाप्रहारेण भिन्नहृदयं चकार ।

 १४. एतदालोक्य पितापुत्रावुभावपि भयविस्मयाक्रान्तौ प्रोच्चैश्चुक्रुशतुः । पिताब्रवीत्। दुर्भगे, किमिदं त्वयानुष्ठितम् ? अतिथिमेनं घातयन्त्या त्वया, अहमपि सान्वयो घातितः ।