पृष्ठम्:चोरचत्वारिंशीकथा.djvu/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

४८

किलोत्तस्थौ । तमलिपर्वा पृच्छति स्म- आर्य, एवं कृतत्वरं कुत्र गच्छसि ? त्वया त्वसकृदुपकृतमस्य मे तनयस्य । अधुना च, मया सह सकृद्भुक्त्वा मामप्युपकर्तुं प्रसीद । संभवेत्किल यन्मदीयमातिथ्यं भवादृशस्यानर्हम्। तथापि, तदौदार्येण स्वीकुर्वता भवतानुग्राह्यमात्मानमिच्छामि । हर्षणेन प्रतिभाषितम्--। आर्य, एतां तवाभ्यर्थनां गरीयांसमनुग्रहं गणयामि । तथापि, कार- णेनैव त्वत्प्रणयग्रहणाक्षममात्मानं समर्थये । कथितं चेत्, कारणमिदं त्वमपि पर्याप्तं मंस्यसे ।

 १५. ततोऽलिपर्वणा भणितम् --। भद्र, न चेद्रहस्यम्, कारणमेतत्कथयित्वा जनोऽयं त्वयानुग्रहीतव्यः । पण्याजीवेन प्रत्युक्तम्--। अलवणः स्वल्वाहारः पथ्याशिना मया क्रियते । निर्लवणानि च भक्ष्याणि प्रायो दुर्लभानि । अतस्तन्निर्माणार्थं क्लेशं ते परिहरता मया न शक्यते प्रार्थितमिदमभ्युपगन्तुम् ।

 १६. अलिपर्वावोचत् --। अकिंचित्करमेतत्कारणम् । त्वया च तदर्थं प्रणयो मे न प्रत्याख्येयः । प्रथमं तावत्, मद्रृहे निर्लवणमेव पच्यन्तेऽपूपाः । अपरं च--। यन्मांसाद्यद्यनीयेत, तन मा लवणं मिश्रीकुरु–इति सद्य एव गत्वा सूदमादिशामि । एपोऽहं गतस्तथानुष्ठातुम्-इति ।

 १७. एतद्भाषमाण एवालिपर्वा महानसं प्रविश्य मारजनिमाज्ञापयामास--। यदद्य त्वया भोजनसमये मांसं निर्लवणमेव परिवेष्टव्यम् । अभ्यागतो हि निवृत्तलवणोऽस्ति ।