पृष्ठम्:चोरचत्वारिंशीकथा.djvu/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

४५

 ३. अथ प्रातरुत्थाय, स प्रवसतो वणिजो वेषं विदधौ । नगरं च गत्वा भोजनागारे वासमग्रहीत् । तेन संभावितम्--। यदनेन समयेन, अलिपर्वणो गृहगतं वृत्तविशेपं नगरे वहुलीभूतम् , जनानां च संलापविषयीभूतं स्यात् इति । अतः, तच्छूोतुकामोऽयमन्नशालास्वामिनं नगरगतामचिरजातां कौतुकवतीं कांचिद्वार्त्तामपृच्छत् । स तु पृष्टो बहूनि वृत्तानि कथयामास । चोरहिंसां पुनरुघिश्य न किंचिदपि । ततः सोऽनुममे-। यदलिपर्वणा स चोरवधव्यतिकरो रहस्यमिति रक्षितः, मा तद्बत्तस्य श्रवणेन जनानां जिज्ञासा जायताम् । मा च गुहागतां धनसंपदं तदधिगमोपायं चोद्दिश्यैते कामपि चर्चां कुर्वताम्-इति ।

 ४. स स्तेनपतिरात्मानं दुकूलवणिजं जनेभ्यः कथयामास । उवाच च-। पट्टवासांसि विक्रेतुं कयाचित्समीचीनया पण्यशालया मम कार्यमस्तिइति । कंचित्कालमन्विष्य स पण्यागारमेकं परिचिक्रिये । तत्तु विधिवशात्कश्यपस्य भूतपूर्वाया विक्रयशालायाः पुर एव वर्तते स्म ।

 ५. अथायं कपटापणिको वनं निवृत्तः । गुहां च प्रविश्य, तत्र संचितानि महार्घाणि चीनांशुकानि स्वीयमश्वमारोपयामास । तानि च नगरगतं निजं पण्यस्थानमानिनाय । एवं नैकवारं बिघाय, स बहून् दुकूलुभारान्नवां पण्यशालामवहत् । तदर्थं पुनः, स्वगुहां लोकलोचनेभ्यो रक्षन् , नक्तमेव निभृतं गतागतानि चकार ।

 ६. स नाम्ना कुजहर्षणो बभूव । आगन्तुकश्च सन्, स प्रतिवेशिवणिक्षु भूयसा दक्षिणोदारत्वेन ववृते । तस्य संमुखे पण्यागारे स्थितोऽलि- पर्वणः पुत्रः, न केवलं युवा दर्शनीयश्च, पटुबुद्धिरप्यासीत् । स च कुजहर्षणश्च, वारंवारमुद्यमगतान्विषयानुद्दिश्य संलापं चक्रतुः । येन तौ गच्छता कालेन मिथो वयस्यभावमिव पुपुषतुः ।