पृष्ठम्:चोरचत्वारिंशीकथा.djvu/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३७


 १३. अथासौ चोरपुरोगः ‘अश्वतरान्सुस्थितान्द्रष्टुमङ्गणं गच्छामि’— इत्युदित्वा बहिर्गतः । स हि स्वप्रबन्धस्य निर्वर्तनमुद्दिश्य सहचरानुपदेष्टुमियेष । स गोष्ठं गत्वा ततश्चाङ्गणं निवृत्य प्रथमां कुतूमासाद्य तद्गतं चोरं स्वैरं बभाषे—। अहमत्राभ्यन्तरे शालायां स्वपिमि । तत्रस्थश्चाहं कांश्चिदुपलखण्डान्कुतूपरि क्षेप्स्यामि । तांश्चाकर्ण्य त्वया छुरिकया शिखरादारभ्य तलं यावत्कुतूः पाटनीया । ततश्च क्षणान्निर्गन्तव्यम् । सममेवाहमप्यागत्य, अनन्तरकरणीयं तवोपदेक्ष्यामि—इति । शेषाण्यपि चर्मपात्राणि स एकैकश आसाद्य, तत्रगतान्पुरुषांस्तथैवादिश्य गृहान्तः प्रविष्टः ।

 १४. ततो मारजनिर्दीपहस्ता तस्मै तदर्थमुपकल्पितं शयनं दर्शयामास । प्रार्थयामास च—। अपि वस्तुना केनचित्कार्यं भवतः ?—इति । न केनापि—इयुत्तरमाकर्ण्य सा निववृते । सोऽपि चोरवर्यः शय्यागारगतं दीपं निर्वाप्य, तल्पमधिशिश्ये । किं तु स्वप्रयोगनिर्वहणसमयं प्रतीक्षमाणः, उन्निद्र एव संनद्धस्तस्थौ ।


दशमो भागः

दासीकृतं चोरनिबर्हणम्

  न पराक्रमसाध्यं यत्तदुपायेन सिध्यति ।
  चोरा हता मारजन्या क्वथत्तैलनिषेकतः ॥ ३१ ॥

 १. अथ मारजनिर्भर्तुर्निदेशमनु तस्य स्नानीयवसनादि समाजहार । भृत्याय चाब्दपालाय तदर्पयामास । अपिच तेन पेयभाण्डमधिचुल्लि