पृष्ठम्:चोरचत्वारिंशीकथा.djvu/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३३


 २. एवं सत्यपि, कर्म किंचिदनुष्ठातुकामा बहिर्गत्वा प्रतिनिवृत्ता शश्वदप्रमत्ता मारजनिः, तार्क्ष्यदृष्टित्कत्वाद्द्वारगतं सूक्ष्ममपि तदरुणं लक्ष्म लक्षयामास । यथापूर्वमिदमपि मत्स्वामिनमभिद्रुह्यता केनापि नरेण विहितं स्यात्—इति शशङ्के । अथ तस्य सवर्णे सदृशं समाकारं च लक्ष्म दक्षिणतश्च वामतश्च प्रत्यासन्नेषु कतिपयेषु सदनेषु प्रत्येकं निर्ममे । सोऽपि चोरः स्वीयां दक्षतामन्तः श्लाघमानः स्वनिवासगुहां निवृत्तः । मेने च—। विपक्षक्षयं ज्ञातुं ध्रुवमहं समर्थः स्याम्—इति । तदुपदिष्टस्तेषामग्रेसरोऽपि सानुगः, अस्मिन्नवसरे पाणिपतितामिव कार्यसिद्धिं कलयामास ।

 ३. ते सर्वेऽधुनापि तन्नगरं यथापूर्वमजनितजनशङ्कमेव प्राविशन् । अथ चोराविष्ठाता तेन चरेण साकमलिपर्वणो गृहसमीपस्थां रथ्यां प्राप । किंत्वस्मिन्नपि समये पूर्व एवान्तराय उपस्थितः । तथाहि रक्तपिष्टलक्ष्माङ्कितानि नैकानि गृहाणि ताभ्यां वीक्षितानि । येन स दस्युवरिष्ठः परां कोटिं कोपस्याधिरूढः । तन्मार्गोपदेशकश्च भूयसा विस्मयपरवशो जातः । अतोऽस्मिन्नपि द्वितीये वारे, असिद्धार्थानां तेषां निवृत्त्य गुहागमनादन्यत्किमपि शरणं नासीत् । सर्वे च ते प्रतिपत्तिशून्या बभूवुः । असौ द्वितीयोऽपि मार्गोपदेष्टा प्रथमगतेन सहचरेण समायातुमिव तद्गतेनैव पथा यमावासं प्रेषितः।

 ४. अथ चोराधिपश्चिन्तयामास——। शत्रूच्छेदाय चेष्टमानः पूर्वमेकः सहचरो हतः, अधुना चायमपरः । एवमेतेषु व्यापृतेषु मद्वयस्यगणो दिनेदिनेऽल्पतां व्रजन्नामशेपो भवेत्—इति शङ्के । तदलमेतदनुचरकल्पितेनोपायेनानुसृतेन । अधुना मयैवात्मना प्रबन्धो विधेयः—इति । ततोऽसौ विपक्षमार्गणकार्यं स्वयमभ्युपेयाय ।