पृष्ठम्:चोरचत्वारिंशीकथा.djvu/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२८


द्गेहं नीयमानोऽहं कंचिद्देशमासाद्य पटावृतलोचनो विहितः । तदवस्थश्च शवगृहं प्रवेशितः । कृतशवसंधानश्च पुनरपि पटावृतनेत्र एव तमेवोद्देशं प्रतिप्रापितः । अतस्त्वमेव जानीयाः—। यदर्थं ते संपादयितुं न मया पार्यते ।

 १२. अथ चोरो जगाद—। बाढम् । मन्ये पुनः——वस्त्राच्छन्ननेत्रोपि गतपूर्वमध्वानं कियदपि गन्तुं शक्नुयाः। अतस्त्वं मां तं देशं प्रापयेः, यत्र पूर्वं त्वं संवृतनेत्रः कृतः । तत्र प्राप्तं त्वामधुनापि पटाच्छन्नचक्षुषं विधास्यामि । ततश्चावां, यावती रथ्याश्चोपरथ्याश्च गतपूर्वास्त्वं स्मरेः, तावतीराक्रमिष्यावः । इदं च व्यवहितार्थस्यापि दर्शकं निष्कान्तरं गृहाण। मन्ये—। मदर्थे प्रयस्यतस्तव तोषस्यापि जनकमिदं स्यात् । सर्वो हि कृतस्य परिश्रमस्य कृते पारितोषिकमवश्यं लम्भनीयः ।

 १३. तदा निष्कपाणिर्मुष्टवाहः क्षणं विचारयन् स्थितः—। किं मयाधुना प्रतिपत्तव्यम् ?—इति । स हि न वा तस्मा अभ्यागताय मार्गं दर्शयितुमैच्छत्, न वा तं हेमनिष्कं हातुमुदसहत । स प्राप्तपूर्वं सद्योलब्धं चोभावपि निष्कौ करतलगतौ स्निग्धं निदध्यौ । न पुनः क्षणं निश्चयमगात् प्रतिपत्तिमन्तरेण । क्षणान्तरे जातनिश्चयोऽसौ, उरोनिहितं स्यूतमाकृष्य विवृतमुखं विदधौ, तस्मिंश्च निष्कद्वयं निदधौ । दातुश्च संमुखीभूय बभाषे—। अखिलो मार्गो मया स्मर्तुं शक्यः—इति नालमस्मि तुभ्यं प्रतिज्ञातुम् । तथापि बलवतीं तवेच्छामनुरुध्य यथाशक्ति प्रयतिष्ये ।

 १४. एवं वचनमादाय स स्वकर्मशालां यथास्थितमेव विवृतां विहाय, तेन चोरेण सहोच्चचाल । यतस्तस्यां शालायां स्तेयार्हं बहुमूल्यं वस्त्वेव