पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७
द्वितीयोऽङ्कः ।

 गणिका--(क) अळं अय्यरस सम्भमेण ।

 चेटी--- (स्व) हं, को दाणि एसो।

 गणिका-- (ग) उम्मत्तिए ! किं सरणाअदो पुच्छीअदि ।

 चेटी--(घ) अविणाम साहसिओ भवे ।

 गणिका-- (ङ) उम्मत्तिए ! गुणवन्तो रक्खिदव्यो होदि ।

 संवाहकः ---(च) अय्ये! णं भएण उवआरो विस्सरिदो, ण परिभवेण । पेक्खदु अय्या, भीदाह वा परिसिदाह वा आवण्णाह वा सुळभचारित्तवञ्चणाह वा अवराहेदु समत्था होन्ति ।

 गणिका--- (छ) भोदु भोदु । विस्सत्थो भोदु अय्यो । गणिआ खु अहं ।

 संवाहकः- (ज) अभिजणेण । ण सीलेण ।


 (क) अलमार्यस्य सम्भ्रमेण ।

 (ख) हं, क इदानीमेषः ।

 (ग) उन्मत्तिके ! किं शरणागतः पृच्छयते ।

 (घ) अपिनाम साहसिको भवेत् ।

 (ङ) उन्मत्तिके ! गुणवान् रक्षितव्यो भवति ।

 (च) आर्ये ! ननु भयेनोपचारो विस्मृतः, न परिभवेण । पश्यत्वार्या, भीता वा प्रधर्षिता वा आपन्ना वा सुलभचारित्रवञ्चना वा अपराधयितुं समर्था भवन्ति ।

 (छ) भव, भवतु । विश्वस्तो भवत्वार्यः । गणिका खल्वहम् ।

 (ज) अभिजनेन । न शीलेन ।

  • 'शक्या' इत्यर्थः ।