पृष्ठम्:चम्पूभारतम्.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
तृतीय स्तबक:

पितृव्याचाथ पृथातनूजो हरि पुरोधाय सम वलौघै |
परस्परस्त्रेहमिवैष मातु प्रस्थ ययौ खाण्डवशव्दपूर्वम् ॥ १ ॥

 तत्र [१]वनीभवति वनीपकजनमनीषितपूरकुलावनीपसुरसुरभिगोष्ठीगौष्ठीने देशे[२] स्मरणमात्र[३]कृतसनिधानेन सकलशिल्प[४]पारक्ष्ना विक्ष्वकर्मणा [५]स्वकर्मणा निर्मापित [६] रामणीयकावलोकनसुलभविस्मयभारगुरुतरानमरान्वोढुमक्षमतया [७] क्ष्मातलमवलम्बमार्विमानैरि[८]वाभ्रलिह कुरुविन्दमणिमन्दिरैर्जम्भरिपुनिदे-


 पितृव्येति| अथार्धराज्याभिषेकानन्तरम् | एष पृथातनुजो धर्मराज पितृव्यस्य पितृम्रातुधृर्तराष्ट्रस्य वाचा 'इन्द्रप्रस्थे बस' इत्यात्मिकया परस्प रस्य स्वेषा दुर्योधनादीना च स्त्रेह प्रेमरस मातु प्रमाणीकर्तुमिवेत्युत्प्रेक्षा| खाण्डव इति शब्द पुर्वो यस्य नामनि तथोक्त प्रस्थम् | इन्द्रप्रस्थ प्रतीत्यर्थ | 'खाण्डवो बलसूदन' इतीन्द्रपर्यायेषु शब्दार्णव| हरि ष्रिकृष्ण पुरोघायाग्रे कृत्वाबलौघै सम ययौ | 'कुडव प्रस्थ इत्याद्या परिमाणार्थका पृथक्' इत्यमर| उपजाति ॥ १ ॥

 तत्रेति| वनीपकजनस्य याचकजनस्य मनीषिताना कामिताना पूरका समप्र सपादका पुरोर्नाम राज्ञ कुल वशो येषा ते च तेSवनीपा राजानस्त एव सुरसुरभय कामधेनवस्ता गोष्ठी समूहस्तस्या गौष्ठीने पूर्वतनस्थाने | 'वनीपको यावनको मार्गणो याचकार्थिनौ', 'गोष्ठ गोस्थानक तत्तु गौष्ठीन भुतपूर्वकम्' इत्युभयत्राप्यमर| तत्र देश इन्द्रप्रस्थभागे वनीभवत्यरण्यायमाने सति | चिरा द्राज्ञामनामनावासादिति भाव | स्मरणमात्रेण कृत सनिधान समीपस्थितिर्येन तेन सकलाना शिल्पाना गृहादिनिर्माणव्यापाराणा पारत्त्तट्ट्क्ष्वना पारगतेन विक्ष्वकर्मणा देवशिल्पाना(कर्त्रा) स्वेन स्वीयेनैव कर्मणा व्यापारेण | न त्वन्यदीयेनेत्यर्थ् | निर्मापित रचितम् | अतएव रामणीयक्स्य तत्पुरसौन्दर्यस्यावलोकनेन सुलभो यो विस्मयभार आक्ष्चर्यातिशयस्तेन गुरुतरानतिदुर्भरानमरान्देवान्वोढुमक्षमतया शक्त्या क्ष्मातल भूप्रदेश प्रत्यवलम्बमानैर्विमानैर्देवयानैरिव स्थितै कुरुविन्दम णिमयैर्मन्दिरैर्गृहैरम्रलिहमाकाशचुम्बि जम्भरिपोरिन्द्रस्य निदेशेनाज्ञया लम्भित प्रापित तस्येन्द्रस्य नाम इन्द्रसज्ञा उपपद स्वसग्नया पूर्वशब्दो यस्य तथोक्तम् | पुर्वतनराजभिरिति शेष | पुरमिन्द्रप्रस्थमधिष्ठिताय | तत्र प्रविष्टायेत्यर्थ |


  1. 'वनीमवनी ' इति पाठ
  2. 'देशे प्रविश्य ' इति पाठ
  3. 'नयनपात्रेण' इति पाठ
  4. ' पारदृक्ष्चकर्मणा' इति पाठ
  5. 'स्वकर्मणा' इति नास्ति कचित्
  6. 'कामनीयकविलोकन' इति पाठ
  7. 'क्षमातलम्' इति पाठ
  8. 'करुविन्दमणिमन्दिरैरम्रलिहम्' इति पाठ