पृष्ठम्:चम्पूभारतम्.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
चम्पूभारते

 क्षत्रा सकाशमु[१]पनाय्य सहानुजातै।
धर्मात्मजाय धुरि कसभिदोऽर्धभा[२]वा-
 दन्वर्थनामथ विभज्य ददौ स्वनाम्त्र ॥११७॥
तस्मिन्नाराहितलक्षणे नृ[३] पसुते राज्याभिषित्त्के सति
 स्वान्यक्षीणि दद्दुर्यदम्बु शिशिर लिप्ताङ्के कुङ्कुमै ।
राग यद्विभराबभूवुर[४]हन्य दूर्णिते बन्दिभि-
 र्निष्पन्दत्वमत स्वहष्टिरिति त पौरा विवव्रु स्फुटम् ॥११८॥

इत्यनन्तभट्टकविकृतौ चम्पूभारते द्वितीय स्तबक ।



यन प्रसिद्ध नृत्तान्तमवकर्ण्य क्षुत्वा। क्षत्रा विदुरेणानुजातौर्म्रातृभिर्भीमादिभी सह सकाश स्वसमीप प्रत्युपनाग्य प्रापग्य। धर्मात्मजमिति विभक्तिविपरिणामेन योज्यम्। कसभिद् क्षीकृष्णस्य धुर्यग्रे धर्मात्मजाय युधिष्ठिराय स्वस्य नाम्रो धृतराष्ट्र इति सज्ञाया अन्वर्थता ध्रुतराष्ट्रत्वम्। राज्यधारणमिति यावत्। अर्धभावाद्विभज्यार्ध त्वेन विभाग कृत्वा ददौ। अर्धराज्य दत्तावानित्यर्थ। वसन्ततिलजकावृत्तम्॥११७॥

 तस्मिन्निति। आहितानि सघटितानि लक्षणानि छत्रचामरादिराज्यचिह्नानि यस्मिंस्तधोक्ते तस्मित्रपसुते धर्मराजे राज्येऽभिषतक्ते सति। धृतराष्ट्णेति भाव यद्यस्मान्स्वानि स्वीयान्यक्षीणि नेत्राणि शिशिर शीतलमम्बु आनन्दोत्थ दधुर्धृतव् न्त। एव तस्मिन्नृपसुते कुङ्कुमैक्ष्चन्दनमिक्षितैर्लिप्तान्यङ्कानि यस्य तास्मिस्तथोक्त्ते सति। शैषिक कप्प्रत्य। स्खान्यक्षीणि। यद्यस्मात् रागमारुण्यमनुराग च बिभराबभूवुदृधु । 'भीहीभृहुवा क्ष्लुवन्च' इति बिभर्तेरमि क्ष्लुवद्भावाद्भित्वम्। 'भृञामित्' इत्यभ्यासस्य इत्वम्। तस्मित्रृपसुते बन्दिभि स्तुतिपाठकैर्वार्णिते स्तुते सति यद्यस्मात्स्वान्यक्षीणि निष्पन्दत्व निक्ष्चलत्वम्। उत्सेकादविकृतत्वमिति यावत्। अवहन्वहति स्म। अत उत्तूहेतुत्र्यात्पौरा पुरजनास्त धर्मराज स्वेषा इष्टि चक्षुरिति विवव्रु सभावयन्ति स्म। स्फुटमित्युत्प्रेक्षा। सा च अभि षेककुङ्कुमालेपबन्दिवर्णनै राज इव स्वइष्टेरप्यम्बुधारणरगभरणाविकृतत्व वह्णवाक्यार्थाना हेतुत्वेन काव्यलिङ्गत्र्योज्जीवितेति तस्यास्तेषा चाङ्गाङ्गिभावेन सकर्। वृत्त शार्दूलविक्त्रीडितम्॥११८॥

इति क्षीसदाशिवपदारविन्दनकन्दलितानन्दसान्द्र्स्य कुरविकुलचन्द्र्स्य

रामकवीन्द्र्स्य कृतौ चम्पूभारतव्याख्याने लास्याभिघाने

द्वितीय स्त्बक।


  1. 'उपनीय' इति पाठ
  2. 'भातात्' इति पाठ
  3. 'नरपतौ' इति पाठ
  4. 'अभजन्' इति पाठ