पृष्ठम्:चम्पूभारतम्.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
चम्पूभारते

 कूजयामास कोदण्ड । कु[१]लिशायुधनन्दन ॥ ११२ ॥

 तेन जनन इव प्रधनेऽपि वृकोदरद्वितीयेन करोदरपरिकर्मॅीकृतस्य र्मी[२]कुतस्य वर्मनिर्माथिभि शरोर्मिभिर्निकु[३]त्तमर्माणो भयविसारिभि स्वेदवारिभि [४]स्वेपदान्येव यानपदेऽभिषिञ्चन्त समराजिरकन्दलितपार्थयशश्चतुर्थीचन्द्रकलावलोकन परिहर्तुमिव मुख निवर्त्य सौबलेया केवलैरेव बाहुमि कुरु[५]पुटभेदन प्रति पलायबभूवु ।

बीभत्सुचापविवृतेषु महत्सु कर्म
 स्वेक दृढ जगृहिरे युधि धार्तराष्ट्रा ।
वीक्ष्य स्थितेषु विमतेषु विलोलजीव
 पृष्ट प्रकाश्य गमन पृथुना जवेन ॥ ११३ ॥


पाञ्चालेष्वपसर्पत्सु पलायमानेषु सत्सु कुलिश वज्रमायुध यस्य तस्येन्द्रस्य नन्दनो ऽर्जुन कोदण्ड चाप कूजयामास गुणाकर्षेण ध्वनयति स्म । सूर्यसूनोस्तत्प्रसूताया दीप्ते शितैस्तीक्ष्णै शरैरिव शरै किरणै सोमकेषु चन्द्रवद्भवलेषु जलेषु अपसर्पत्सु शुष्यत्सु सत्सु कुलिशायुध नन्दयति वाहनत्वेनेति नन्दनो मेघ कस्य ब्रह्मण उत ऊर्घ्वमण्ड ब्रझाण्डोर्ध्वभागमाकाश कूजयामास । गर्जितैरिति भाव । ‘कश्चित्तात्मरविब्रह्म वातृमूर्धसुखेषु कम्’ इति विश्व । इत्यर्थान्तरे तु न श्लेष । अभिधाया इत्यादेरुक्तत्वादिति ॥ ११२ ॥

 तेनेति । जनने जन्मनीव प्रधने युद्धेऽपि । उभयत्र चेत्यर्थ । धृकोदरो भीमो द्वितीय सहायो यस्य, वृकोदरस्य द्वितीय इति च । तेनार्जुनेन करस्य उदरे मध्यै परिकर्माकृतस्यालकारीकृतस्य कार्मुकस्य चापस्य सबन्धिभि वर्माणि कव चानि निर्म थन्न्तीति तथोकै शराणामूर्मिभि परम्पराभि निकृत्तानि मर्माण्यायुस्थानानि येषा ते सौबलेया दुर्योधनादयो भयेन विसारिभि स्रवद् स्वेदवारिभि खेषा पदानि चरणान्येव यानपदे वाहनस्थानेऽभिषिञ्चन्त पादचारिण सन्त समराजिरे युद्धप्राङ्गणे कन्दलितमङ्कुरित पार्थयश एव चतुर्थीचन्द्रकला तस्या अबलोकन परिहर्तुमिवेत्युत्प्रेक्षा । चतुर्थीचन्द्रदर्शनमपवादहेतुरिति प्रसिद्धम् । मुख निवृत्य परावृत्य । लज्जावशादिति भाव । केवलैर्निरायुधैरेव बाहुभिरुपलक्षिता कुरूपुटभेदन हस्तिनपट्टन प्रति पलायबभूवु पलायन चक्रु ॥

 बीभत्स्वित्ति । युधि युद्धे बीभत्सोरर्जुनस्य चापेन विवृतेषु प्रकटीकृतेषु महत्सु क्ष्लाध्येषु कर्मसु क्रियासु । तन्मध्ये इत्यर्थ । विमतेषु शत्रुषु वीक्ष्य स्थितेषु


  1. ‘कुकुशायुध’ इति पाठ
  2. ‘कृत’ इति पाठ
  3. निर्मितेर्ममर्माणोभयप्रसारिभि ’ इति पाठ
  4. “स्व” इति नास्ति क्वचित्
  5. ‘पट' प्रति पाठ