पृष्ठम्:चम्पूभारतम्.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
द्वितीय स्तबक ।

 रेखावधेरनवगामितया ह[१]गङ्ग
  पूर्वोक्तमेव स पुन पुनराललम्बे ॥ । ९२ ॥
सकलमपि वपुर्विभूष्य तन्व्या सपदि सखी विषुळेक्षणाम्बुजापि ।
चिरतरमनवेक्ष्य म[२]ध्यदेश करधृतकाञ्चनकाञ्चिरेव तस्थौ । ९३ ॥
 काञ्चीकलापमणिबिम्बितपार्श्वयोषि
  त्कौशेयपङ्क्तिरवनीन्द्रसुता बभासे ।
 आविर्भविष्यदधिगोष्टि कटीनिमग्न
  वास शत जनदृशामिव सूचयन्ती ॥ ९४ ॥

आतङ्कपीडामददा पुराहमस्यास्त[३]दा भाविपु वल्लभेषु ।


गन्तु प्राप्तमपटुरशक्त सन् । नयनयोरतिदैर्यादिति भाव । श्रम खेदमानशे प्राप्तवान् । अक्ष्नोते कर्तरि लिट् । स करो रेयावधेर्नेत्रान्तसीमाया अनवगामि तथा दुर्जयत्वेन हेतुना पूर्व प्रथममत कज्जललिप्तमेव दृशो नयनस्याङ्गमेकदेश पुन पुनराललम्बे जगृहे । अत्र नयनयोस्तादृग्दैघ्र्यासबन्धेऽपि सबन्धरूपाति शयोक्युज्जीवितोऽय पुन पुनरुक्ताज्ञनभ्रान्तिमदलकार इति द्वयोरङ्गाङ्गिभावेन सकर ॥ ९२ ॥

 सकलमिति । सखी काचित्तन्व्या द्रौपद्या सक्लमपि वपुर्मध्यातिरि क्ताखिलशत्र सपदि द्रुत विभूष्यालकृत्य स्वय विपुलेऽतिविशाले ईक्षणे अम्बुजे इव यस्यास्तथोक्तापि मध्यदेश द्रौपद्या मध्यभाग चिरतर सुचिरेणाप्यनबेक्ष्य करेण धृता काञ्चनकाञ्चि काञ्चनमेखला यया तथोक्ता सत्येन तस्थौ । चिरतर तस्थाविति वा योजना । अत्र मध्यस्यानवलोकनासबन्धेऽपि सबन्वोक्तरति शयोक्ति । एव विशालनेत्ररूपसामग्रीसत्वेऽप्यवलोक्नकार्यानुत्पत्तेविशेषोक्तिक्ष्च। द्वयोरेकवाचकानुप्रवेशसकर । तदुज्जीविता चेय सख्या काञ्जीमहल कृत्य तूष्णीस्थित्यसबन्धेऽपि सबन्धोक्तिरूपातिशयोक्तिरिति द्वयोरङ्गाङ्गिभा वेन सकर । ‘मध्ययष्टिम्' इति पाठान्तरमनवलोकनाप्रसक्त्या सदर्भविरोधपत्तेरुपेक्ष्यम् । पुष्पिताग्रा ॥ ९३ ॥

 काञ्चीति । अवनीन्द्रसुता द्रौपदी काक्ष्चीकलापे मेखलाभूषणे ये मणयस्तेषु बिम्बिता प्रतिफलिता पार्क्ष्वेषु योषिता कौशेयपङ्कि पट्टवस्त्रमाला यस्यास्तथोका सती । ‘कौशेय कृमिकोशोत्थम्’ इति वस्त्रभेदेष्वमर । अधिगोष्ठि छूतसभायामाविर्भविष्यत् । कि चेदानीं कक्ष्या नितम्बे निमग्न लीन वास शत वस्त्रशतम् । शत शब्दोऽनेक्खपर । जनाना इशा सूचयन्तीव बभासे । उत्प्रेक्षालकार ॥ ९४ ॥

 आतङ्केति । अह लाक्षाधाम पुरा वारणावतनिवाससमयेऽस्या द्रौपद्या


  1. ‘दृगन्तम्’ ‘ड्गशम्’ इति पाठ
  2. ‘मध्ययष्टिम्' इति पाठ
  3. द्रुतम्’इति पाठ