पृष्ठम्:चम्पूभारतम्.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
चम्पूभारते


वता पराशरदायादेन ‘जतुभ[१] वनपरिच्यवनेन वो नवो हर्ष पार्ष- तस्य समुन्मिषति’ इति गिरानुगृहीता साक्षात्प्ररोहता भुजप्रतापा नलेनेव फ[२]ल्गुनकरवेल्लितेन महतालाततेजसा निशि[३] नितान्तसीम न्तितसतमसया पदव्या त्रिविष्टपतटिनीं स[४]मया प्राविक्षन् । त[५]त्र खलु

इन्दीवरात्प्रतितरगमनुप्रविष्टै-
 र्बिम्बैरिवाब्धिदुहितुस्तरुणीकदम्बै ।
क्रीडन्सम पयसि चित्ररथो विलोक्य
 पार्थान्रूरोध कुपित प्रधन चिकीर्षु ॥ ६१ ॥
अस्त्रमात्मसमनामदैवत सप्रयुज्य समरे धनजय ।
तत्र तस्य रथमग्रवर्तिन जातुषालयसहायमातनोत् ॥ ६२ ॥


कृत उदय साक्षात्कारो येन तेन । शालिहोत्राश्रमे पूर्वदत्तदर्शनत्वात्पुनरपीत्युक्तम्। भगवता त्रैकाल्यवेदिना पराशरस्य सुनेर्दायादेन पुत्रेण व्यासेन । “दायादौ सुतबान्धवौ' इत्यमर । वो युष्माक जतुभवनाज्जतुहाद्दद्यमानात्परिच्यव नेन निरुपद्रव निर्गमनेन पृषतो द्रुपदपिता तदपत्यस्य पार्षतस्य नवो नूतन । मृत्वा पुनरुत्थितितुल्य इति यावत् । हर्ष समुन्मिषति जायते । इत्युक्त प्रकारया गिरानुगृहीता सन्त साक्षान्मूर्तीभूय प्ररोहता निर्गच्छता भुजयो प्रताप एवानलोऽग्निस्तेनेव स्थितेन फल्नकरवेल्लितेन महतालातस्य करधृत काष्ठाङ्गारस्य तेजसा निशि रात्रौ नितान्त सीमन्तित पार्श्वयोद्दीिधा नि सा रित सतमसमन्धकारो यस्या तया पदव्या वनमार्गेण त्रिविष्टपस्य स्वर्गस्य तटिनी नदीं गङ्ग समया। तस्या समीपमित्यर्थ । ‘अभित परित -' इत्यादिना द्वि तीया। प्राविक्षन् । विशते र्क्तरि लुइ ॥

 तत्र खळु । गङ्गायामित्युत्तरेणान्वय ॥

 इन्दीवरादिति । इन्दीवरान्नीलोत्पलात् । रात्रौ तत्रैव लक्ष्म्या स्थितेरिति नाव । तरणे तरगे प्रतितरगमनुप्रविष्टै क्रमेण सक्रान्तैरब्धिदुहितुर्लक्ष्म्या बिम्बै प्रतिबिम्बैरिव स्थितैतरणीना कद्भ्बै समूहै समम् । तै सहेत्यर्थ । पयसि गङ्गाजले क्रीडन् । चित्ररथो नाम गन्धर्व पार्थान्विलोक्य कुपित क्रुद्ध सन् । स्त्रीभि सहैकान्तस्थितौ एषामागमस्य लज्जाकरलेन क्त्रोधोत्पादकत्वादिति भाव । अतएव प्रवन कर्तुमिच्छु चिकीर्षु सन् । रुरोव निरुद्धवान् । अन्न पार्थावलोकनस्य प्रधनेच्छा प्रति तस्याश्च तन्निरोध प्रति हेतुत्वात्पदार्थहेतुक काव्यलिङ्गद्वयमङ्गिभावेन सकीर्णम् । वसन्ततिलका ॥ ६१ ॥

 अन्नमिति । धनजयोऽर्धेन समरे चित्ररथेन सह युद्ध आत्मना सम


  1. ‘सदन’ इति पाठ.
  2. ‘फाल्गुनकरत्रलिगतेन' इति पाठ
  3. ‘निशि’ इति नास्ति कचिव
  4. ‘समय’ इति नास्ति कचित्
  5. ‘तत्र खलु' इति पस्ति कचिव