पृष्ठम्:चम्पूभारतम्.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
चम्पूभारते ।

भुञ्जीत चेन्मम स एव हि पुण्यपाक ।
बालेन भाव्यमिति तद्वलिषु व्यवस्था
कण्ठे पुन [१] कलयति क्रकचस्य धाटीम् ॥ ४४ ॥
सतानमूलमिदभेकमपत्यमास्ते
सवर्तकालसहजश्च स राक्षसेन्द्र ।
सभूयते च समय क्षपया महत्या
सतीर्यता कथमिय सखि मे विपत्ति ’ ॥ ४५ ॥

इत्युदीर्य सरभसावगाहनैदसमुत्कूलित शोकसर पूरमिव नयन- सलिल विशृङ्खळ खेलयन्त्यै तस्यै ‘तनयेषु द्वितीय समरेष्वद्वितीय सुत सखि, ते’ दीयते । स एव [२]तत्प्राणनाशने बलीभविष्यति । मा भैषी ’ इति सा नरदेवमहिषी प्रत्यश्रौषीत् ।


नपि भुञ्जीत चेद्भक्षयेद्यदि स वृद्धभक्षणमेव पुण्याना पाको हि फल खळु । तन्मा- त्रमपि नास्तीत्याह--बालेनेति । तस्य बक्स्य बलिषु विषये बालेन भाव्य भवितव्यमित्युक्तप्रकारा व्यवस्था प्राचीननिष्कर्ष पुन कण्ठे क्रकचस्य करपत्रस्य धाटी भङ्गी कलयति योजयति । आवयोर्दम्पत्योर्युद्धत्वात् तरुण पुत्र एवाय तद्वल्यर्थ देय इति महहु खमिति भाव । वसन्ततिलका ॥ ४४ ॥

 सतानेति । सतानस्यास्मद्वशस्य मूलमविच्छेदकारणमिद पुरोवर्ति अपत्य पुत्र एकमेवास्ते वर्तते । तद्दानाद्वशोच्छेद इति भाव । ननु कदाचित्कृपया बक पुन पुत्र दद्यादित्यत आह--सवर्तेति । स राक्षसेन्द्रश्च बकस्तु सवर्त कालस्य सहज । सदृश इत्यर्थ । तथा च प्राणिहिंसाविहाराणा कुत कृपेति भाव । ननु कालान्तरभाविनीमापद विचिन्त्य किमघैव शोचसीत्यत आह - सभूयत इति । महत्या दु खदुर्भरया क्षपया एकयैव रात्र्या समयो बलि प्रदानावसर सभूयते सप्राप्यते । प्रभाताया रजन्यामेव बलिर्देय इत्यर्थ । अतो न कालान्तरीणा विपदिति भाव । इय उक्त्त मे मदीया विपत्ति । हे सखि, कथ केन प्रकारेण सतीर्यतामतिक्रम्यताम् । तरते कमणि प्राप्तकाले लोट् ॥ ४५ ॥

 इतीति । इत्युक्तप्रकारेणोदीर्योक्खा सरभसमतिवेगमवगाहन निमज्जन यस्य तथोक्तेन हृदयेन मनसा समुत्कूलित तट प्रापित शोक एव सरो जल तस्य पूर प्रवाहमिव स्थित नयनयो सलिल विशृङ्खल निष्प्रतिबन्ध यया तथा खेल यन्त्यै प्रसारयन्त्यै तस्यै ब्राह्मणपत्न्यै । हे सखि, ते तुभ्य मम तनयेषु द्विती- योऽपि समरेष्वद्वितीयोऽसदृश सुतो भीमो दीयते । मयेति शेष । स भीम एव तस्य बकस्य । प्राण्यते जीव्यतेऽनेनेति प्राणन यदशनमन्न तद्विषये बली


  1. ‘कलयते' इति पाठ
  2. ‘मया ते’ इति पाठ ३ ‘तत्प्रीणनप्रणाशनयो ’ इति पाठ