चक्रा पुरी क्रमादाक्रम्य कस्यचिद्रृहमेधिनो गृ[१] हमध्यमेत्य सुखमध्यवा[२]त्सु ।
भिक्षामटद्भिरथ तत्र पृथाकु[३]मारै-
रर्ध विभज्य पृथगर्पितम[४] न्नराशिम् ।
आकण्ठमभ्यवहरन्न[५]खिलै प्रतीकै
पुत्रो बभूव मरुत पुनरुक्तपोष ॥ ३७ ॥
तत्र तत्र द्विजैरेते पृष्टा नाश पृथाभुवाम् ।
इत्यूचुर्वयमत्रैव विद्मस्तेषा तु सस्थितिम् ॥ ३८ ॥
यक्षेण केनापि हतो हिडिम्ब इति ब्रुवाणेषु मिथो द्विजेषु ।
आकूतगर्भ हसित सगर्भ्याश्चक्रुर्मुख वीक्ष्य समीरसूनो ॥ ३९ ॥
सूर्यरथस्य सबन्धिनीमक्षथुर चक्रावलम्बितिर्यग्दारविशेषमिव पुरीं क्रमात्कतिप यप्रयाणैराक्रम्य प्राप्य कस्यचिद्रहमेधिनो गृहस्थस्य गृहमध्यमेत्य सुख यथा तथा अध्यवात्सुवसन्ति स्म । वसते कर्तरि लुड् । अत्र बकबलाक्रान्तामित्यादो शब्दमात्रसाधर्म्यान्छेषचतुष्ट्यससृष्टि –‘प्रकृताप्रकृतोभयगतमुक्त्त चेच्छन्दमात्रसाधर्न्यम् । क्ष्लेषोऽय क्ष्लिष्टत्व सर्वत्राघद्वयेनान्ये ॥' इति लक्षणात् ॥
भिक्षामटद्भिरिति । अथ एकचक्रपुरप्रपेशानन्तर तत्र एकचक्राया भि क्षामटद्भि । भिक्षानमाचरद्भिरित्यर्थ । पृथाकुमारै पायैरन्नराशे । आर्जिता दिति शेष । अर्ध समाश यथा तथा विभज्य पृथगपितमन्नराशिमाक्ण्ठ क्ण्ठपर्यन्तमभ्यवहरन्भुञ्जानो मरुतो वायो पुत्रो भीम अखिलै प्रतीकैरवयवे पुनरुक्तो द्विगुणित पोषो मासलत्व यस्य तथोक्तो बभृव । अतिमासलोऽभूदि- त्यर्थ । वसन्ततिलका ॥ ३७ ॥
तत्रेति । एते पाण्डवा तत्र तत्र गोष्ठाषु द्विजैब्राह्मणै पृथाभुवा पाण्डवाना नाश दाहजन्य पृष्टा कि नष्टा इत्यनुयुक्ता सन्त वयमत्र एकचक्रायामेव तेषा तु सस्थितिं नाश सम्यक्स्थिति च विद्यो जानीम इत्युक्तप्रकारमूचु । अत्रैव वर्तमानाना कथमस्माक नाशवार्तेति भाव । युग्मविपुलापृत्तम् ॥ ३८ ॥
यक्षेणेति । केनाप्यनिज्ञातनामगोत्रेण यक्षेण हिडिम्बो हत इति द्विजेषु मिथोऽन्योन्य ब्रुवाणेषु कथयत्सु सत्सु समान एकस्मिन्गर्भे भवा सगर्म्या सहना युधिष्ठिरादय समीरसूनोर्भामस्य मुख वीक्ष्याकूतोऽभिप्रायो गर्भे यस्य तथोक्त