पृष्ठम्:चम्पूभारतम्.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
द्वितीय स्तबक ।

तत्तादृशेषु गुरुशासनपालनेषु
 कूलकष गुणगणेन कुल हि पूरो ॥ १७ ॥

धर्मभूरनुजै साक तद्रिरा तत्पुर ययौ ।
कर्मचोदनया जीव कायमन्यमिवेन्द्रियै ॥ १८ ॥

सविनयमथ दर्शित महीय सचिववरेण पुरोचनेन शत्रो ।
जतुगृहमभजन्त तत्र पार्था जगदिव नूत्नमशेषवस्तुपूर्णम् ॥ १९ ॥

तत्र ते विदुरभृत्यभाषितै सौबलेयशतमन्युहेतुना ।


लम्ब्य कार्याकार्यालोचने कालक्षेपमकृत्वा तथा वारणावत गच्छामीयुक्तप्रकारा वाचमगृह्माध्दृतवान् । उवाचेति यावत् । नन्विदमयुक्तम् ‘गुरोरप्यवलिप्तस्य कार्याकार्यमजानत । उत्पथप्रतिपन्नस्य कार्य भवति शासनम् ॥’ इति याया दित्यत आह--तदिति । पूरो कुरुवशजस्य राज्ञ कुल तत्तादृशेष्वतिदु ख करत्वेन दुर्भरेषु गुरो पितु शासनमाज्ञा तत्पालनेषु तत्करणेषु विषये गुणाना विनयविवेकादीना गणेन कूलकष परिपूर्ण खलु । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यास । पूरुर्नाम पुत्र पितुर्ययातेर्जरा परिगृह्य जुगुप्सिता दशसहस्रवत्सरा न्खतारुण्य तस्मै दत्तवानिति भारतकया । वसन्ततिलकावृत्तम् ॥ १७ ॥

 धर्मेति । धर्मभूर्युधिष्ठिरस्तस्य धृतराष्ट्रस्य गिरा तत्पर वारणावत प्रति अनुजै साक जीवोऽन्त करणप्रतिबिम्बितचैतन्य कर्मण प्रारब्धस्य चोदनया प्रेरणया इन्द्रियैश्चक्षुरादिभि सह अन्य काय देहान्तरमिव ययौ प्राप्तवान् । उपमालकारः । तेन हस्तिनपुरस्यागो देहत्यागवदतिदु खायाभूदिति प्रतीतेरलका रेण वस्तुध्वनि युग्मविपुलावृत्तम् ॥ १८ ॥

 सविनयमिति । अथ वारणावतप्रात्प्यनन्तर तत्र वारणावते पार्था अशेषैवैर्वस्तुभिर्भाग्यै पूर्णमत एव महीय रमणीयम् । कि च शत्रोदुर्योधनस्य सचिववरेण मन्त्रिमुख्येन पुरोचनेन नाम्ना म्लेच्छेन सविनय यथा तथा दक्षाित विज्ञापित जतुगृह लाक्षागृह नूत्न नव जगल्लोकान्तरमिवाभजन्त विविशु । उपमालकार । अत्र शत्रो सचिववरेणेत्युक्त्या तद्रुहस्य वासायोग्यत्व ध्वन्यते । पुष्पिताग्रावृत्तम् ॥ १९ ॥

 तत्रेति । ते पार्था विदुरभृत्यस्य तत्प्रेषितखनकस्य भाषितैर्वाक्यैर्दुर्योधनो जतुगृहदाहाघुष्मान्मारयिष्यतीत्यादिभिस्तत्र तस्मिञ्जतुवाम्नि लाक्षागृहे सौबलेयाना दुर्योधनादीना यच्छत तस्य मन्यु क्रोध स एव हेतुर्यस्य तेन । सौबळेयो दुर्योधन एव शतमन्युरिन्द्रो हेतुर्यस्य तेनेति च । ‘शतमन्युदिवस्पति ’ इतीन्द्रनाभस्व मर । धनजस्य बह्नेरर्जुनस्य च प्रापणेन पूरणेन परा सख्याभिन्ना पञ्चता मरण