पृष्ठम्:चम्पूभारतम्.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
चम्पूभारते

प्रीतो राजाप्यनुजतनयप्रेममार्गे प्रयातु
 मातुर्दोषादिव बहिरगादरप्यन्धभावम् ॥ १६ ॥

 तदनु सौबलीजानिरसौ बलीयसामर्षे[१]ण धर्षित सहजविनय धर्मतनयमाहूय कृतावहित्थो गिरमित्थमुत्थापयामास ।

 ‘वत्स, सप्रति वारणावत पुरमुपेत्य वारणाननगुरोरुत्सव वारणाय विपदा निषेव्य सहानुजैस्तत्र वास्तव्यपौरजनभव्यया गिरा स्तव्यो निरवधिसु[२]खामनुशाधि वसुधाम्’ इति ।

तस्याशय हृदि विदुन्नपि धर्मसूनु-
 स्तातस्य वाचमविलम्ब्य तथेत्यगृह्णात् ।


 सहिष्णोरित्यर्थ । स्वात्मजस्य दुर्योवनस्यानुरोधादनुसरणात् । तडुर्बोधनानुत्तेरिति यावत् । अनुजतनये युधिष्ठिरे यत्प्रेम तस्य मार्गे प्रयातु गन्तु मातुरम्बिकाया दोषात्सुरतसमये व्यासरूपावलोक्नजुगुप्साकृतनेत्रनिमीलनरूपादूहि । नेत्रयोरिवेत्यर्थ । अन्तर्मनस्यपि । अन्धस्य भावमन्धत्वमगात्प्राप्तवान् । तत्तादृश प्रेम तत्याजेत्यर्थ । पुरा किल सत्यवत्याज्ञयाम्बिका पुत्रोत्पादनाय सगता व्यासेन । अथ तद्रूपदशनजनितजुगुप्साभयकृतलोचनमीलनाज्जात्यन्ध जनयामास धृतराष्ट्रमिति भारतकथात्रानुसधेया । मन्दाक्रान्ता धृत्तम् ॥ १६ ॥

 तदन्विति । तदनु प्रेमल्यागानन्तर सौबली गान्धारी जाया यस्य सोबलीजानि । ‘जायाया निइ’ इति निड् । असौ धृतराष्ट्रो बलीयसा महतामर्षेण । द्वेषेणेत्यर्थ । धर्षित आक्रान्त सन् । सहज खाभाविको विनयो यस्य त धर्मतन्यमाहूय । कृतावहित्थाकारगोपन येन तथोक्तश्च सन् । स्वकैतवपरिज्ञानभयेनेति भाव । इत्थ वक्ष्यमाणप्रकारेण गिर वाचमुत्थापयामासोत्पादितवान् । उवाक्ष्वेत्यथ ॥

 वत्सेति । हे वत्स युधिष्ठिर, त्व सप्रत्यद्य वारणावत नाम पुरमनुजैर्भी मादिभि सहोपेत्य वारणस्य गजस्येवानन मुख यस्य तस्य विझेशस्य यो गुरु पिता सदाशिवस्तस्योत्सव नैमित्तिकपाक्षिकादिक विपदा वारणाय निवारणाथ निषेव्य तत्र वारणावते वास्तव्यस्य निवासिन पौरजनस्य भव्या कुशलान्वि तया गिरा स्तोतु योग्य स्तव्य सन् निरवधि अवधिरहित सुख यस्यास्ता वसुधा भूमिमनुजै सहानुशाधि परिपालयेत्युवाचेति पूर्वेणान्वय ॥

 तस्येति । धर्मस्य यमस्य सूनुर्युधिष्ठिर । ‘सूनु पुत्रेऽनुजे रवौ' इति विक्ष्व। तस्य कृतावहित्थस्य तातस्य पितुर्धृतराष्ट्रस्याशय दुष्टाभिप्राय हृदि विदञ्जानन्नपि । ‘अनुक्तमप्यूहति पण्डितो जन' इति न्यायादिति भाव । अवि-


  1. ‘वास्तव्यो गिरा पौरजनमुवास्तव्यो' इति पाठ
  2. ‘सुखेन’, ‘सुखम्’ इति पाठ