इति व्याजस्तुतिवचनेन पौर[१]रवान्ते भार्गवान्तेवसता प्रधर्षित [२]पार्षतस्तेन सार्धमर्धराज्यपरिव[३]र्तनमात्रमङ्गीकृत्य कृत्यविदा ककुदस्तौ जम्भरिपुकुम्भसभवावुभाव[४] प्युपयम प्रवर्तयितु [५]कृतनिवर्तन सोमकान्तिकोपास्यौ पुत्रौ भागीरथीव[६]नावसथस्य याजस्य सुनिराजस्य याजनानुग्रहेण परिजग्राह ।
[७]तत ।
तातोऽपि धर्मतनय तपनीयपीठ- |
इतीति । इत्युक्त्तप्रकारेण व्याजस्तुतिवचनेन गूढनिन्दावाक्येन करणेन भार्गवस्य परशुरामस्यान्तेवसता शिष्येण द्रोणेन (कर्त्रा) पौरवाणा युधिष्ठिरादीना मन्ते समीपे प्रधषितो भर्सित कृत्यविदा कर्तव्येषु निपुणाना ककुद श्रेष्ठ अतएव पार्षतो द्रुपदस्तेन सार्धु द्रोणेन सह । अर्धराज्यस्य परिवर्तनमात्र परिपालनमेव । नतु सख्यमित्यर्थ । अङ्गीकृत्य । ‘सर्वनाशे समुत्पन्ने अर्ध त्यजति पण्डित इति न्यायादिति भाव । कृतनिवर्तन प्रत्यागत सन् । तौ प्रसिद्धौ जम्भरिपुसभवमर्जुन कुम्भसभव द्रोण च । उभावपि क्रमेण । उपयम विवाहम् । ‘विवाहोपयमौ पाणिपीडन च' इत्यमर । यमस्य समीप च प्रवर्तयितु प्रापयितु सोमश्चन्द्र उमया पार्वत्या सहित सोम शिवश्च, तयोरिव कान्ति कोपश्च क्रमात् आस्ये भुखे ययोस्तौ । सोमो लताविशेषे स्याच्छशाङ्के शकरेऽपि च' इति विश्व । चन्द्रकान्त्या तुल्यानना रुद्रवर्द्धमुख चेत्यर्थ । सोमकै पाञ्चालैरन्तिके उत्सङ्ग उपास्यौ । उपालनीयाविति च । पुत्रीं च पुत्र च पुत्रौ द्रौपदीधृष्टघुम्नौ भागी रथ्या वने तीरारण्य आवसथ स्थान यस्य तस्य । स्थानावसथवास्तु च' इति गृहपूर्यायेष्वमर । याजस्य नाम मुनिराजस्य याजनेन यागकारयितृत्वरूपेणानु ग्रहेण प्रसादेन परिजग्राह । उत्पादितवानित्यर्थ यत्तु ’कुम्भजम्भरिपुसभवौ’ इति पाठान्तरम्, यच्च वा तद्रीत्यैव नृसिंहव्याख्यानम्, तदुभयमप्यशुद्धम् । विवाहप्रापकचन्द्रकाव्त्याननत्वस्य द्रौपद्या यमसमीपप्रापकरुद्ररौद्रास्यत्वस्य धृष्टघुम्ने क्त्रमेणान्वयथासख्यालकारभङ्गापत्ते ‘पुमान्स्त्रिया' इत्येकशेषशास्त्रेण पुत्री च पुत्रश्च पुत्रावित्येव व्याख्येयतया सोमकैरन्तिके उपास्यावित्यर्थान्तराप्रसक्त्तया च ‘सोमकोपकान्त्यास्यौ’ इति पाठकल्पनायोगाञ्चेति ॥
तात इति । ततोऽनन्तर तातो धृतराष्ट्रोऽपि तपोभिर्लव्ध चक्षुरिव स्थित मित्युत्प्रेक्षा । शुश्रूषादिगुणसपत्त्या परमप्रेमास्पदमित्यर्थ । जात्यन्धस्य भाग्या