पृष्ठम्:चम्पूभारतम्.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
चम्पूभारते

पुत्रावल्या सुबलदुहितु पूर्वपक्षीभवत्या
 सिद्वान्तोऽभूद्दिवि भुवि बुधै क्ष्लाधित सव्यसाची ॥ १० ॥

पार्थमेव पुरतो निधाय ते कौरवास्तदनु सनिधौ गुरो ।
भक्तिभिर्व्यनमयन्निज शिर [१] पार्षतस्तु परिभूतिलज्जया ॥ ११ ॥

अथो गुरुर्नातमधिज्यधन्वना पुर प्रदेश पुरुहूतसूनुना ।
तरङ्गिताक्ष तमवेक्ष्य विद्विष वचो गभीर वदति स्म [२]सस्मितम् ॥१२ ॥

 ‘रेरे [३]क्षत्रियसत्तम, पुरा महत्तरमग्निदेश्यमग्निवेश्य [४]नाम मुनिमलस्त्रपरिश्रमाय प्रश्रयेण सह शुश्रूषमाणस्त्व मत्कृते पितुरनन्तर


भावात्मकोऽभूदिति । अर्थान्तर तु न क्ष्लेष । ‘अभिधाया प्रकृते नियन्त्रणात्’ इत्यादेरुक्तत्वादिति । मन्दाक्रान्ता वृत्तम्--‘मन्दाक्रान्ता जलधिषडगैम्भौ नतौ ताद्रुरू चेत्’ इति लक्षणात् ॥ १० ॥

 पार्थमिति । तदनु द्रुपदग्रहणानन्तर ते कौरवा कुमारा पार्थमर्जुनमेव पुरतोऽग्रे निधाय गुरोर्द्रोणस्य सनिधौ निज शिरो भक्तिभिर्व्यनमयन्। प्रणेमु रित्यर्थ । पार्षतो द्रुपदस्तु परिभूया तिरस्कारेण या लज्जा तया निज शिर व्यनमयत् । अवनतवदनोऽभूदित्यर्थ । नमतेर्ण्यन्तात्कतारि लड् । अत्र कुस्कुमा राणा द्रुपदस्य च प्रकृतानामेव शिरोनमनधर्मेणौपम्यस्य गम्यत्वात्केवलप्रकृतास्प दस्तुल्ययोगिताभेद । रथोद्धता धृत्तम् ॥ ११ ॥

 अथो इति । अनन्तर गुरुर्द्रोणोऽधिज्यमारोपितगुण धनुक्ष्चापो यस्य तेन हूतस्येन्द्रस्य सूनुनार्जुनेन पुर प्रदेश नीत ग्रापित तरङ्गिते चकितचकिते अक्षिणी यस्य तथोक्त्त विद्विष शत्रु त द्रुपदमवेक्ष्य गभीर गूढ़ार्थ वचो वक्ष्यमाण सस्मित यथा तथा वदति स्म। वशस्थवृत्तम् ॥ १२ ॥

 रेरे इति । रे रे तुच्छ । ‘तुच्छसबोवने तु रे’ इत्यमर । क्षत्रियसत्तम । विपरीतलक्षणया क्षत्रियाधमेत्यर्थ । पुरा धनुर्वेदाभ्यासकाले महत्तरमतिशयपूज्यमग्निदेश्यमग्निदेशे भवम् , यद्वाग्निकल्पम् । अग्निवेश्य नाम मुनिमस्त्रस्य धनुर्वि द्यया परिश्रमायाभ्यास कर्तुमिति। क्रियार्थं-' इत्यादिना सप्रदानत्वम् । प्रश्रयेण सह विनयेन साकम् । ‘साक सत्रा सम सह' इत्यमर । शुश्रूषमाण सेवा कुर्वन् । त्व मत्कृते मदर्थम् । ममेत्यथ के पितुरनन्तर' लोकान्तरगते पितरि ममाधिराज्यपदस्यार्ध राज्यार्ध प्रथममग्रे भवते तुभ्य वितीर्य दत्त्वा तत पर मवशिष्टमर्ध राज्यार्धमहमनुभविष्यामि इति यद्वस्तु यथा येन प्रकारेण प्रत्यक्ष्ट्णुथा प्रतिज्ञामकरो , तत्प्रतिज्ञात वस्तु विप्र धिक् इत्युक्तप्रकारेण अत एव क्षुरप्रा


  1. ‘पार्षद ’ इति पाठ
  2. ‘सस्मित ’ इति पाठ
  3. अरे’ इति पाठ
  4. ‘नाम' इति नास्ति क्कचित् ।