पृष्ठम्:चम्पूभारतम्.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४६
चम्पूभारते


 तत सवर्तसमयसच्छात्रे तादृशि कुरूणामुभयेषामपि सप्रहारे कृष्णावेणीबन्धायुषा सह परिसमाप्ते ।

स्व दु शलाशेषमपत्यवर्ग पाण्डोश्च विज्ञाय समस्तशेषम् ।
दृशा सदान्धो जरठो महीपश्चिर तदाचेतनया[१]पि जज्ञे ॥ २१ ॥

 तदानीं विदुरसजयाया व्यजनादिभिरुपचारैर्विश्राणितसज्ञ [२]कुरुपति ‘हा सुयोधन, हा दु शासन’ इति बहुधा विलपन्नुत्थाय रणनिहतस्वजनमुखेन्दुस्मरणमात्रादुल्लो[३]लकल्लोलितशोकसिन्धुभिर्बन्धुभि सह नगरान्निर्गत ‘हे [४]प्राणा , भवत्समेषु गतेष्वपि यूयमद्यापि न निगता ’ इति रोषेण प्राणान्बहिरुत्सारयितुमिव हृदि पुन पुनर्विर-


शिरोमणिच्छेदात्पुत्रशोक जहावित्यर्थ । अत्र शोकाग्निदाहप्रतिबन्धक इति रूप कातिशयोक्त्योरेकवाचकानुप्रवेशसकर । उपजाति ॥ २० ॥

 तत इति । तन सवर्तसमयस्य प्रलयकालस्य सच्छात्रे सहाध्यायिनि। तद्वद नेकक्षयकर इति यावत् । तादृशि तथाविधे उभयेषा कुरूणा पाण्डवधार्तराष्ट्राणा सबन्धिनि सप्रहारे युद्धे कृष्णाया द्रौपद्या वेणीबन्धस्य दु शासनवधावविकस्य अयुषा जीवितकालेन सह परिसमाप्ते सतीत्युत्तरेणान्वय । केशाकर्षि दु शासनरुधिरतैलसस्कारेण द्रौपदीवेण्या भीमेन मोचितत्वादिति भाव ॥

 स्खमिति । स्व स्वीय अपत्याना दुर्योधनादीना वर्ग दु शला पुत्री एकैव शेष यस्मिंस्तथोक्त्त विज्ञाय श्रुत्वा पाण्डो सोदरस्य अपत्यवर्ग तु समता पञ्चापि शेषा यस्मिस्तथोक्त्त च विज्ञाय सदा दृशान्ध जरठ वृद्ध महीप वृत राष्ट्र तदा चेतनया अपि अन्ध जज्ञे बभूव । पुत्रशोकाद्विषदभ्युदयाञ्च सुभृश मूच्छितोऽभूदित्यर्थ । अत्र तादृगुभयविज्ञानस्य धृतराष्ट्रर्च्छाहेतुत्वात्पदार्थहेतुक काव्यलिङ्गस्य अन्धत्वमूर्च्छितत्वगुणयौगपद्यात्मकसमुञ्चयस्य चैकवाचकानुप्रवेशस कर । उपजाति ॥ २१ ॥

 तदानीमिति । तदानी मूर्च्छासमये विदुरेण सजयेन च द्वाभ्या व्यजन तालवृन्तवीजन आदिर्येषा तथोक्त्तैरुपचारै शैत्यसस्कारै विश्राणिता प्रापिता सज्ञा चेतना यस्य स कुरभूपति धृतराष्ट्र । हेति खेदे। हा सुयोधन हा दु शा सन इत्युक्तप्रकार बहुधा विलपन् सन् उत्थाय रणे निहतस्य स्वजनस्य मुखेन्दो स्मरणादेव स्मरणमात्रात् । नतु दर्शनादित्यर्थ । उल्लोल यथा तथा कल्लोलित प्रवर्धित शोक एव सिन्धु समुद्र येषा तै बन्धुभि सह नगरात् हास्तिनपु रात् निर्गत सन् । हे प्राणा , भवद्भि समेषु प्रियतमेषु गतेषु सत्स्वपि यूय


  1. ‘विजिग्ये” इति पाठ
  2. ‘कुरुभूपति’ इति नास्ति क्कचित्
  3. ‘उल्लोलित’ इति पाठ
  4. ‘हे प्राणा ’ इति नास्ति क्कचित्