पृष्ठम्:चम्पूभारतम्.pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४२
चम्पूभारते

,

मन्नामधारि मृदुल वसन विमथ्ना-
 त्येतत्स[१]दत्यतिरुषेव यदूद्वहस्य ।
नेत्रेण सूचितमरेरथ सक्थियुग्म
 चूर्णीचकार गदया श्वसनस्य सूनु ॥ १२ ॥
तत्राथ तारकमिद्रिसुताकुमारो
 जित्वा सुखोधनमसौ शिबिर दिनान्ते ।
वर्ग पृथातनुभुवा मधुभित्समेत
 षड्भिर्मुखैर्जनितशङ्खवो जगाहे ॥ १३ ॥
भूयोऽपि सायमनलाय मह प्रदाने
 भासा प्रभोरिव कराद्दिशि विप्रकीर्णै ।
धूमैरिवाक्षिपथरोधिभिरन्धकारै
 प्रापे कुरुक्षितिभृता पटमण्डपौघ ॥ १४ ॥
,


दुर्योधनोऽय भीम इति मिथो वैलक्षण्यम् । बलोऽपि न प्रविवेद, हरि कृष्णोऽपि न प्रविवेद, पाण्डवाश्च न प्रविविदु , सुरा अपि न प्रविबिदु , अश्वमुखा गन्धर्वा अपि न प्रविविदु , चारणाश्च न प्रविविदु ।अत्रानेकाधिकरणकैकक्रियाभावरूपगु- णयौगपद्यात्समुच्चयभेद । वैतालीयम् ॥ ११ ॥

 मदिति । अथ एतत् दुर्योधनविषयुग्म मम नेत्रस्य नाम सज्ञापद धरति वाचकत्वसबन्धेन वहतीति मन्नामधारि । कि च मृदुल सुकुमार वसन सदा विमथ्नाति निष्पीडयति । इत्युक्तप्रकारया अतिरुषा अत्यन्तकोपेनेव स्थितेनेत्युत्प्रेक्षा । यदूद्वहस्य श्रीकृष्णस्य नेत्रेण लोचनेन सूचितम् अत्र प्रहरेति ज्ञापितम् अरे दुर्योधनस्य सक्थ्यो ऊर्बो युग्म (कर्म) श्वसनस्य वायो सूनु भीम गदया चूर्णीचकार । अत्रोक्त्तोत्प्रेक्षाया ‘नेत्र वाससि लोचने’ इति कोशानुसारेण वस्त्रलोचनयो क्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्यनुप्राणितत्वात्तयोरङ्गाङ्गिभावेन सकर । वसन्ततिलका ॥ १२ ॥

 तत्रेति । तत्र वनान्ते अद्रिसुताकुमार षण्मुख तारक नाम राक्षसमिव सुयोधन जित्वा । अथ मधुभिदा समेत कृष्णेन सगत असौ पृथातनुभुवा धर्मराजादीना वर्ग । षट्कमित्यर्थ । षङ्भुिर्भुवै जनिता शङ्खाना पाञ्चज ' दीना रवा येन तथोक्त्त सन् । एकत्र कृष्णसहितत्वात्, अन्यत्र खयनव षण्मुखत्वाच्चेति भाव । दिनान्ते साय शिबिर निवेश जगाहे प्राप्तवान् । उपमा लकार । वसन्ततिलका ॥ १३ ॥

 भूय इति । अथ साय दिनान्ते अनलाय अग्नये महस तेजस प्रदाने


  1. प्रमद्राति, ‘विमद्राति’ इति च पाठ