पृष्ठम्:चम्पूभारतम्.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४१
द्वादश स्तबक ।


रकितबुद्रुदकळकळोदयात्तस्माज्जळाशयादुत्तीर्य मानिनामग्रणी सुयोधनो धीरधीर[१]मनास्तादृशेन भीमेन सह भयानक गदागदिक[२]लह सरभसमुपचक्रमे ॥

,

आजगाम स सरस्वतीतटादाजिसीम्नि बलवान्बलस्तदा ।
[३]जायते सह यदाख्यया खलु भद्रदेवक्षदयो समागम ॥ ९ ॥

तत्र विस्मयकर गदाहब पश्यतोऽस्य सह समदाक्ष्रुभि ।
पुष्पवृष्टिरुभयोरुपान्तयो पुष्करात्सुरभिगन्धिरापतत् ॥ १० ॥
प्रविवेद कुळालचक्रवद्धमतोस्तत्र तयोर्द्व्र्योर्भिदाम् ।
न बलो न हरिर्न पाण्डवा न सुरा नाश्वमुखा न चारणा ॥११॥
,


धीरधीर महत्या आपद्यपि अविकृत मन यस्य स सुयोधन उत्तीर्य तीर प्राप्य तादृशेन परुषभाषिणा भीमेन सह भयानक लोकैकभयकर गदागदिकलह गदया गदया प्रवृत्तयुद्ध कर्तु सरभस सत्वरम् । न तु विलम्वादित्यर्थ । उपचक्रमे आरब्धवान् । ‘कलहायित युद्धक्रीडाम्’ इति क्वचित्क पाठ । गदादिशब्दनपुसकत्वभयानकेत्यनुसद्वयानुरूप्येण रमणीय । अत्र ‘यदचेतनोऽपि पादै स्पृष्टप्रज्वलति सवितरि सकान्त । तत्तेजस्वी पुरुष परकृतविकृत कथ सहते ॥’ इति न्यायामर्षभाषणश्रवणस्य हदोत्तरण प्रति तस्य गदगदियुद्धोपक्रम प्रतिहेतुत्वान् त्पदार्थहेतुककाव्यलिङ्गद्वयमङ्गाङ्गिभावेन सकीर्ण उक्त्तोत्प्रेक्षासष्टिससृष्ट च ॥

 आजगामेति । तदा भीमदुर्योधनयोर्गदायुद्धसमये बलवान् शौर्यशाली । स बल बलराम सरस्वत्या नाम नद्या तटात् आजिसीन्नि युद्धदेशे आजगाम प्राप्तवान् । यस्य बलरामस्य आरयया बलेति सज्ञाशब्देन सह भद्रेति देवेति च पदयो समागम बलभद्र बलदेव इति चोत्तरपदेन सबन्ध । जायते भवति खल्ल । खलुशब्दो वाक्यालकारे । स बल इति योज्यम् ॥ ९ ॥

 तत्रेति । तत्र आजिसीम्नि विस्मयकर गदाहब भीमदुर्योधनयोर्गदायुद्ध पश्यत अस्य बलरामस्य समदाश्रुभि आनन्दबाष्पै सह सुरभिगन्धि मनोज्ञमोदा पुष्पवृष्टि पुष्करात् अन्तरिक्षात् उभयो भीमदुर्योधनयो उपान्तयो समीपदेशयो आपतत् पतति स्म । अत्रानन्दबाष्पवृष्टयो साहित्यकथनात्सहोपर । ‘सहोक्त्ति सहभावश्चेद्भासते जनरञ्जन' इति लक्षणात् । वृत

 प्रविवेदेति । तत्र गदायुद्धे कुलालस्य कुम्भकारस्य चक्रवत् घटजनकमिव भ्रमतो गदायुद्धरतिविशेषैर्वर्तुल धावतोर्दूयोस्तयो भीमदुर्योधनयो भिदा अय


  1. ’धीर’ इति नास्ति कचित्
  2. ‘कलहायितु’ इति पाठ
  3. ‘जायते खछ यदाख्यथनिश’ इति पाठ