पृष्ठम्:चम्पूभारतम्.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३८
चम्पूभारते

,

अथ युद्धतपर्तुदु सहश्रीर्हरिदभ्यन्तरधावदात्मघोषम् ।
सहते स्म न किचिदप्युलूक सहदेवस्य भुजप्रतापभानु ॥ ४ ॥
 ज्बाल वि[१] षक्तमिव दानविधौ कुशानो
  शोण दधञ्चमरवालमुदस्य चापम् ।
 पार्थे निहन्तरि रिपूनथ कादिशीका
  द्रोणात्म भूकृपमुखा सहसा बभूवु ॥ ५ ॥
,

 इत्थ सोदरदायादवरूथिनीना रणक्षितौ परिक्षयमभिवीक्ष्य महीयसा साध्वसेन मनसि विरचितप्रथमप्रवेश कचन दु[२] र्ज्ञेयदेशे


त्य । क्षणात् । न तु विलम्वादित्यर्थ । यमेन अन्तकेन स्वानन्तरयुग्मजातेन प्रयो ज्यकर्त्रा । सहदेवेनेति च । दापित कण्ठे विन्यासित पाश कालपाश येन तत्कम् । पाशक अक्ष येन तमिति च । व्यधात् चक्रे । शकुनिमवधीदित्यर्थ । अत्र प्रियपाशकस्य प्रदापितपाशकत्वोक्त्ते क्ष्लेषप्रतिभोत्थापित समालकार । वैतालीय वृत्तम् ॥ ३ ॥

 अथेति । अथ शकुनिवधानन्तर युद्धेनैव तपतुना ग्रीष्मेण दु सहा श्री प्रकाश यस्य तथोक्त्त सहदेवस्य भुजयो प्रताप एव भानु सूर्य ।हरिता दिशा अभ्यन्तरे मध्ये धावन्त व्याप्नुवन्त पलायमानाश्च आत्मघोषा स्वसिंहनादा वायसाश्च यस्मात् तम् । ‘ध्वाङ्कात्मघोषो’ इति काकपर्यायेष्वमर । उलूक शकु- निपुत्रमेव दिवान्ध नाम पक्षिभेदम् । इति क्ष्लिष्टरूपकम् । किचित् ईषदपि न सहते स्म । सहदेव उलूक जघानेत्यर्थ । क्ष्लिष्टाक्ष्लिष्टसावयवरूपकम् । औपच्छन्दसिकम् ॥ ४ ॥

 ज्वालमिति । अथ शोण अरुणम् । अत एव दानविधौ स्वेनार्जुनाय वितर- णक्रियाया विषक्त्त विशेषेण लग्न कृशानो अग्ने ज्वाल शिखमिव स्थितमित्युत्प्रेक्षा । ‘द्वयोर्जालकीलौ’ इति ज्वाला शब्दस्य पुस्त्वस्याप्यनुशासनात् । चमरचाल बिरुदचामरं दधत् । चाप गाण्डीव उदस्य उन्नम्य पार्थे अर्जुने रिपून् हतशिष्टान् निहन्तारि मारयति सति । द्रोणात्मभू अश्वत्थामा कृप तन्मातुछश्च द्वौ प्रमुग्वौ येषा ते हतशिष्टा कौरवीया सहसा कादिशीका भयाद्रुता । पलायिता इति यावत् । ‘भयाद्रुत कादिशीक ' इत्यमर । बभूवु । बसन्ततिलका ॥ ५ ॥

 इत्थमिति । इत्थ उक्तप्रकारेण सोदराणा दुशासनादीना दायादाना भीष्मसोमदत्तादीना बरुथिनीना सेनाना च । दायादाना लक्ष्मणादिसुतानामिति वा । ‘दायादौ सुतबान्धवौ' इत्यमर । रणक्षितौ परित क्षय नाश अभिवीक्ष्य महीयसा भूयिष्ठेन साध्वसेन भयेन मनसि विरचित प्रथम अपूर्व प्रवेश


  1. ‘निषक्त’, ‘अनुषक्त’ इति चपाठ
  2. ‘रचितगूढा इति पाठ