शल्य तत परमरातिकुलस्य चित्ते
शल्य दिशन्तमनिश रमण कुरूणाम् ।
कल्य रणेशु पृतनाधिपति विधाय
तुल्य त्रिविष्टपपते स्वममन्यतासौ ॥ १ ॥
तत्ता[१]दृश तदनु बाहु[२]बलेन शत्रु-
नाकम्पयन्तममरावलिमस्तकेन ।
शक्त्तया निहत्य युधि शल्यमजातशत्रो
पाणिर्दधौ प्रथमत परहिसकत्वम् ॥ २ ॥
अथ त सुबलात्मज क्षणा[३]दवगत्य प्रियपाशक मृधे ।
यमदापितपाशक व्यधाघमयो प्राथमिक पराक्रमी ॥ ३ ॥
,
शल्यमिति । तत पर कर्णानन्तरम् कुरूणा रमण असौ दुर्योधन रणेषु कुल्य समर्थ अत एव अरातिकुलस्य शत्रुपृदस्य चित्ते शल्यमिव शल्य दु ख अनिश दिशन्तम् । कुर्वन्तमित्यर्थ । शल्य कर्णसारथि पृतनाधिपतिं सेनानायक विधाय कृत्वा । स्वमात्मान त्रिविष्टपपते इन्द्रस्य तुल्य अमन्यत सभावितवान् । अत्र दुर्योधनस्यात्मनेन्द्रस्य तुल्यत्वसभावना प्रति शल्यसेनापतित्वविधानस्य हेतुत्वत्पदार्थहेतुककाव्यलिङ्गेन शल्यस्य देवसेनानीसाम्यप्रतीतेरलकारेणालकारध्वनि । वसन्ततिलका ॥ १ ॥
तदिति । तदनु बाह्वोर्बलेन मदेनेति । शौयदपेणेत्यर्थ शत्रून् अमरावले देववृन्दस्य मस्तकेन शिरसा सह आकम्पयन्तम् । एकत्र भीत्या परत्र क्ष्लाघयेति भाव । अतएव त तामिव तत्तादृशम् । अनुपमप्रतापमित्यर्थ । शल्य युधि अजात शत्रो धर्मराजस्य पाणि शक्त्तया नामायुधेन सामर्थ्येनेति वा । निहत्य प्रथमत प्राथमिक परेषा शत्रूणा हिंसकत्व हिंसा दधौ । शल्यसेनाधिपत्यदिवसे युधिष्ठिर प्रथममवधीत्सेनापतिमित्यर्थ । अनेन वस्तुना दिनदशकादिकृतभीष्मादिसेना प्रतिवधादर्जुनादप्यधिकोऽय युधिष्ठिर इति प्रतीतेर्वस्तुना वस्तुध्वनि । अजातशत्रो परहिंसाया अनुचितत्वात्पाणिरित्युक्तिचमत्कारश्च । उक्त्तमेवेद श्रुत्तम् ॥२॥
अथेति । अथ युधिष्ठिरेण शल्यधानन्तरम् । प्रशस्त पराक्रम अस्यास्तीति पराक्रमी । यमयो युग्मजातयो । नकुलसहदेवयोमध्य इत्यर्थ । प्राथमिक नकुल । कृतान्तयो प्राथमिक इति च। प्रिया इष्टा पाशका अक्षा यस्य तम् । प्रिय पाशो नाम यमायुध यस्य तत्कम् । शैषिक कप्प्रत्यय । इष्टाधम चेति च । त धृतनिपुण सुबलस्य गान्धारराजस्य आत्मज शकुनि अवगत्य समे-