पृष्ठम्:चम्पूभारतम्.pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३४
चम्पूभारत

 सव्यसाचिहननाय शरासे सहिते रविभुवा भुजगास्त्रे ।
 नन्दनद्वितयवत्वममस्त स्वस्य कल्पकवनेन सहेन्द्र ॥ ४८ ॥
रवितनयविमुक्तमस्त्रमेतद्दिवि रसनायुगल बहिर्वितन्वत्।
अहमरिमधुना द्विधाकरोमीत्यभिनयकेलिमिवादधद्वभासे ॥ ४९ ॥
 द्विधा विधातु विजय शिरोधा-
  वथापतन्त स सरीसृपन्तम् ।
 निरीक्ष्य पा[१]देन निजेन शार्ङ्गी
  निमज्जयामास शताङ्गमुर्व्याम् ॥ ५० ॥
आनेमिमग्नस्य हरेरुपायात्तदा शताङ्गस्य किरीटिनोऽस्य ।
गर्भेऽवकाश किल बान्धवेन शभो शताङ्गो [२]धरणीव्यतानीत् ॥ ५१ ॥


पूर्वमेव । वरणमाल्य दधौ गृहीतवती । चिरतनोत्कटानुरागादिति भाव । अत्र कर्णकर्तृकार्जुनवधार्थनागास्त्रधारणस्य विशेषणगत्या उर्वशीवरणमाल्यधारणहेतुत्वात् काव्यलिङ्गभेद । रथोद्धता ॥ ४७ ॥

 सव्येति । रविभुवा कर्णेन सव्यसाचिहननाय अर्जुनवधार्थ शरासे कालापृष्ठे भुजगास्त्रे सहिते सयोजिते सति इन्द्र स्वस्य कल्पकवनेन सहैव नन्दनयोद्वितयवत्व अमस्त सभावितवान् । नार्जुनजयन्ताभ्या कितु जयन्तनन्दनवनाभ्यामेवैत्यर्थ । अनिवार्यमेतदस्त्न हन्त्येवार्जुनमिति सभावन क्ष्लोकद्वयेऽप्यूर्वश्या इन्द्रस्य च माल्यग्रहणोक्ततर्कोदयहेतुरिति व्येयम् । अत्रापि पूर्ववत्काव्यलिङ्गम् ॥ ४८ ॥

 रवीति। रवितनयेन कर्णेन विमुक्त एतदत्र दिवि आकाशे रसनयो जिह्वयो युगल बहि वितन्वत् प्रसारयत्सत् अह अरिं स्वस्य मातृहन्तारं अर्जुन अधुना द्विघकरोमि खण्डयामि इति उक्तप्रकारं अभिनयकेलिं उक्त्तर्थाभिव्यञ्जकाञ्जिकचेष्टा अदधदिवेत्युत्प्रेक्षा । बभासे ॥ ४९ ॥

 द्विधेति। अथ विजय अर्जुन शिरोधौ ग्रीवाया द्विधा विधातु कर्तु आपतन्त आगच्छन्त त पूर्वोक सरीसृप नागास्न्न समीक्ष्य स । शार्ङ्ग नाम धनुरस्यास्तीति शाङ्गी कृष्ण । शताङ्ग अर्जुनरथ निजेन पादेन उर्व्या भूमौ निमज्जयामास भग्नीचकार । बाणलक्ष्यादर्जुन स्त्रसितुमिति भाव । ’निजेन भारेण’ इति पाठान्तरम् । उपेद्रवज्रा ॥ ५० ॥

 आनेमीति । तदा हरेरुपायात् पादनिष्पीडनरूपात् आनेमि चक्राश्वलाय पट्टिकापर्यंन्त मग्नस्य किरीटिन अर्जुनस्य सबन्धिन अस्य शताङ्गस्य शभो शताङ्ग रथ । अत एव धरणी भूमि । बान्धवेन किल रथत्वसाजात्यकृतेनेवेत्युत्प्रेक्षा । गर्भे अन्तश्च अवकाश व्यतानीत् । ददावित्यर्थ । उपेन्द्रवज्रा ॥ ५१ ॥


  1. ‘भारेण’ इति पाठ
  2. ’धरणि” इति पाठ .