पृष्ठम्:चम्पूभारतम्.pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३३
एकादश स्तबक ।


,

उल्लोलकल्लोलितदोर्विलासावुपेन्द्रमद्रेश्वरसारथी तौ ।
परस्पर भल्लकुलैरभूता रूषावलीढावरुषावलीढौ ॥ ४५ ॥
कणोमरेन्द्रसुतकार्मुकवल्लिवान्तै-
र्नीरन्ध्रितेऽम्बरतले निबिडै पृषत्कै ।

भ्यागतानमरभवमुपेत्य वीरां -
न्पप्रच्छ वैणिकमुनि प्रधनप्रकारान् ॥ ४६ ॥
पाणिना तदनु भानुनन्दने पन्नगास्त्रमचिरेण गृह्वति ।
पूर्वमेव निखिलाप्सर कुळात्सा दधौ वरणमाल्यमुर्वशी ॥ ४७ ॥
 ,


दिवि आकाशे तत्र तदानी अवकर्ण्य । वीणा शिल्पमस्य वैणिक तर्स्य ताप सस्य नारदस्य महती प्रीति सतोषोऽभूञ्च नाभूच्चेति यत्तच्चित्रम् । अन्तर्हिताखि ळशब्दान्तरत्वेन लोकोत्तरत्सवीणारवान्तधिकरत्वाच्चेत्याश्चर्यम् । अत एव वैणि केति विशेषणस्योक्त्ततात्पर्यगर्भवास्परिकरालकार । औपछन्दसिकम् ॥ ४४ ॥

उल्लोलेति । उल्लोल अत्युन्नत यथा तथा कल्लोलित वर्धित दौर्विलास बाहुप्रताप याभ्या तौ। तारकादित्वादितच् । यथाव्याख्यानात् ’महत्सूल्लोलक ल्लोलौ’ इति तरणविशेषपर्यायकोशानुसारेण पौनरुक्तयम् । उपेन्द्र कृष्ण महेश्वर शल्यश्च सारथिययोस्तौ तौ अर्जुन कर्णश्च द्वौ । रुषा कोपेन अवलीढौ पूर्णौ सन्तौ परस्पर भल्लाना कुलै । अरुषा व्रणेनेति जातावेकवचनम् । अवलीढौ अभूता सक्रणामभवताम् । ‘व्रणोऽस्त्रियामीर्ममरु ’ इत्यमर । अत्र रुषावलीढावरु- षावलीढौ इति यमकभेदविरोधाभासयो शब्दार्थालाकारयोरेकवाचकानुप्रवे- शसकर ॥ ४५ ॥

कर्णेति । कर्णस्य अमरेन्द्रसुतस्य अजुनम्य च द्वयो कार्मुके कालपृष्ठगा ण्डीवे वलथाविव ताभ्या वान्तै विसृष्टै निबिडै सान्द्रै पृषत्कै बाणै अम्ब रतले नीरन्ध्रिते निरन्तरिते सति । आच्छादिते सतीति यावत् । ‘नीरन्ध्रमम्बरतले निबिडे’ इति पाठे नीरन्ध्र यथा तथा निबिडे सान्द्रे सतीत्यर्थ । वैणिको मुनि नारद । तदा अमरभाव देवत्व उपेत्य अभ्यागतान्वीरान् अपरापृत्य मृतान् । प्रधनस्य कर्णार्जुनद्वन्द्वयुद्धस्य प्रकारान् विशेषान् पप्रच्छ पृष्टवान् । पृच्छे र्दुहादित्वाद्विकर्मकत्वम्। अत्र नारदस्य तादृग्वीरपृच्छासबन्धेऽपि सबन्धोक्ति- रूपातिशयोक्त्तया कर्णार्जुनयुद्धस्य लोकोत्तरत्वप्रतीतेरलकारेण वस्तुध्वनि । वसन्ततिलका ॥ ४६ ॥

पाणिनेति । तदनु भानुनन्दने कर्णे पाणिना पन्नगास्न्न नागास्न्नाभिमन्त्रित बाण अचिरेण त गूह्णति सति अर्जुनवधायेलि शेष । सा पुरा अर्जुनमभि लष्य हतकामत्वेन प्रसिद्ध उर्वशी नामामराङ्गना निखिलात् अप्सरसा कुलात्


१ ‘अभिलीढावरुषापि लीढौ' इति पाठ २ ‘नीरध्रमम्बरतले निबिडे” इति पाठ ३ ‘भागम्' इति पाठ ४ ‘योधान्’ इति पाठ