पृष्ठम्:चम्पूभारतम्.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
द्वितीय स्तबक ।


 मुष्टिमेयतनवो विरेजिरे मूलिका इव बहिर्विनिर्वर्गता ॥ ४ ॥

 [१]अन्येघुरपि पुनरजीवन्त निद्रारुनयनरजीव त स सुधधी स्निग्ध इव [२] सजग्धिकेलिकायाम[३] रालिकदपितकवलनिचोलितकरालगरलविह्वल प्रह्वल[४]म्बितशिरस रज्जुमि परिणाह्य परिणाहिनीभिरसुह्यदा [५]ह्र्दयशूलमपि शूलकीलिते निर्जरसरिदन्तर्जले विसर्जयमास ।

तेशा तदानी वृतराष्ट्रजाना तीरे च नीरे दिविषत्तटिन्या ।


बहिएभूमेरूर्ध्व विनिर्गता मुष्टिना मातु योग्या मेया तनुर्यासा ता । सुप्तिभूरुह शयनवृक्षस्य मूलिका मूलनीव विरेजिरे . उत्प्रक्षा । रथोद्धतावृत्तम् ॥ ४ ॥

 अन्येघुरिति । मुग्धा मूढा धीर्यस्य तथोक्त्त स दुर्योधन । साक्षात्सर्पदशनेऽप्यमृतस्य विषदापनेन पुन्स्तच्चिन्तनादिति भाव । स्निग्ध सुह्रिदिव । कपटमित्रमिति यावत् । अन्येघु परस्मिन्दने । पुन सर्पदशनेपीत्यर्थ .आजिवन्त प्राणान्वारयन्त निद्रया अरुणॆ नयने राजीवे कमले इव यस्य तम् । " बिसप्रसूनराजीव" इति पद्यपर्यायेष्वमर । सजग्धिकेलिकाया सहभोजन्क्रीडायामारालिकै सूद्रै ." आरालिक आन्धसिका " इति पाचकपर्यायेष्वमर । दापितैकवलैर्ग्रासैर्निचोलितेनान्ताहितेन करोलेन भीषणेन गरलेन विषेण । तद्भक्षणेनेति यावत् । विह्वल विभ्रान्तमत एव प्रह्वलम्बित शिरो यस्य तथोक्तम् । असुह्रुदा शत्रूणा ह्रुदये वक्ष स्थेले शूलम् । तद्वहु ख्जनकमित्यर्थ । त भीम परिणाहिभिरायताभी रज्जुभि परिणाह्य बन्धयित्वा शूलैरायुधविशेषै कीलितेऽवोबन्धिते निर्जरसरितो गङ्गाया अन्तर्जले जलमध्ये विसर्जयामास पतितवान् । भृत्यैरिति शेश ॥

 तेशमिति । तदानी तेशा धृतराष्ट्रजाना दिविषत्तटिन्या गङ्गयस्तीरे तटे नीरे जले च प्रवीर मरुत्सुत भीम मरयितु क्रमात् सारा द्दढा गुणा सूदा एकत्र । अन्यत्र रज्ज्वक्ष्च साधनता कारणत्वमवापु प्राप्तवन्त । कारणान्यभूवन्नित्यर्थ । सूदैस्तीरे विष प्रदाप्य नीरे रज्जुभिर्बन्धयित्वा पातितत्वादिति भाव् । गुणोऽप्रधाने रुपादौ मौर्व्या सूदे व्रिकोदरे इति विश्व; सारा श्रेष्टा गुणा शौर्यधैर्यादयस्त भारयितु साधनतामवापु । तस्य ताद्दग्गुणराहित्ये तस्म्मिन्नेव वार्तराष्ट्राणा तथा वैराप्रसक्तेरिति भाव । अत्रार्थे गुणाना दोषीकरणाल्लेशालकार । ’लेश स्याद्दोषगुणयोर्गुदोषत्वकल्पनम् ’ इति लक्षणात् । पूर्वत्र च


  1. ’अपरेधु’ इति पाठ
  2. ’सग्धि’ जग्धि इति पाठ
  3. ’आरालिककरदापित इति पाठ
  4. ’लम्बिशिरसम्’ इति पाठ
  5. ’ह्रदि शूलम् ’ इति पाठ