भीम क वा समागच्छतीति वीक्षितुमुन्नतप्रदेशमधिरूढाभ्या हृद्न्तररुधिरबुद्रुद[१]कुळाभ्यामिव रोषलोहिताभ्या लोचनाभ्या साध्वसदानशौण्ड [२]करतलबभ्रम्यमाण[३]परिघपातनपाटितभटघोटककरटिघटाक्षतजप्रवाहै [४]समीकसीमान [५]कण्ठद्वयसी विदधान सुयोधनानुजो वियध्वनि विजृम्भितध्वनिर्वृकोदरद्वगध्वनीनोऽभूत्
,
बद्धकच्छावपि द्वौ तावभीकौ भीम[६]कौरवौ ।
गदागदि रण घोर कुर्वाते स्म परस्परम् ॥ ३१ ॥
निपातितस्य द्विषत स भूमौ समक्षमक्ष्णा कुरुभूपतीनाम् ।
गण्डे कराभ्यामुदरे पदाभ्या सताडन साधु समाचचार ॥ ३२ ॥
,
विदारक भीम क वा कुतो वा समागच्छतीति वीक्षितु समुन्नत प्रदेश मुखात्मक अधिरूढाभ्या हृद उरस अन्तरे अन्तदेशे रधिरबुद्धदौ मुकुळाविव नाभ्यामिव स्थिताभ्या इत्युत्प्रेक्षा । रोषेण लोहिताभ्या अरुणाभ्या लोचनाभ्या साध्वसस्य दानशौण्ड बहुप्रद । अतिभयकर इति यावत् । करतले बभ्रम्यमाणस्य बहुधा व्यापार्यमाणस्य । यअन्ताद्धमतेएलट कर्मणि लट शानच् (?) । परिघस्य गदाया पातनेन प्रहारेण पाटिताना भिन्नाना भटाना योधाना घोटकाना अश्वाना करटिना गजाना च धटाना वृन्दाना सबन्धिभि क्षतजप्रवाहै रक्तपूरै समीक्सीमान युद्धप्रदेश कण्ठद्वयसीं कष्ठपरिमितगाम्भीर्यजला विदधान कुर्वाण विजयध्वनि आकाशमार्गे विजृम्भित व्याप्त ध्वनि सिहनाद यस्य तथोक्त । सुयोधनानुज दु शासन पृकोदरस्य भीमस्य दृशोरध्वान गच्छतीति तथोक्त्त । दृष्टिविषय अभूत् । उत्प्रेक्षाद्वयस्य ससृष्टि ॥
बद्धेति । बद्ध कच्छ मध्यबन्चनपट्ट याभ्या तौ बद्धकौपीनावपीति च । इत्यनेन वीतरागित्व सूच्यते । अभीकौ कामुकाविति विरोध । निर्भयाविति परिहार । भीमकौरवौ तो भीमश्च कौरव दु शासनश्च द्वौ परस्पर गदया गदया प्रवृत्त गदागदि धोर भयकर रण युद्ध कुर्वाते स्म चक्रतु ॥ ३१ ॥
निपातितस्येति । स वक्ष्यमाणविधप्रतिज्ञया प्रसिद्ध भीम कुरुभूपतीना दुर्योधनादिना अक्ष्णा नेत्राणा समक्ष अग्न एव । न तु यत्र कुत्रापीत्यर्थ । भूमौ युद्धभुवि निपातितस्य द्विषत दु शासनस्य गण्डे कपोले कराभ्या उदरे कुक्षौ पदाभ्या च सताडन साधु यथाप्रतिज्ञ समाचचार कृतवान् । अत्र तत्तादृकिप्र- यापराधकरपदताडनयोरानुरूप्येण सघटनय समालकार ॥ ३२ ॥