पृष्ठम्:चम्पूभारतम्.pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२७
एकादश स्तबक ।


रिचिचीषयेव दू[१]र नभसि करान्प्र[२]सारयद्भि शुण्डालमण्डलैश्च विचित्रतरचक्रचङ्त्र्कमणमिषेण पदात्पदमपि न गन्तव्यमिति विमतनिरोधकुण्डलनामिव कुर्वद्भिरर्वद्भिश्च शोणितपङ्त्र्कशो[३]णितै वेगसभ्रमविदा [४]र्यमाणधरणीरन्ध्रनिर्गत्वरफणीन्द्रफणासहस्रमणिकिरणधोरणीमसृणितैरिव चक्रै सक्रीडद्भि शताङ्गैश्च [५]भयानके सकळसुरजनतनरुहसौखशा[६]यनिके समीके ॥


फाणा वनुर्धराणा कर्णाभ्याश श्रोत्रसमीप प्रत्यागतै कोदण्डदण्डै चापयष्टि भिश्च युद्धस्य विलोकने बद्ध कौतुक येन तस्य सिद्धाना देवयोनिविशेषाणा यौवतस्य युवतीसमूहस्य यत् कुचमण्डल तस्य निजयो कुम्भयोश्च यत् तारतम्य न्यूनाधिकभाव तस्य परिचेतु परीक्षितु इछा परिचिचीषा तयेव । नभसि दूर करान् शुण्डा प्रसारयद्धि शुण्डलमण्डलै गजवृन्दैश्च विचित्रतरस्य अत्या श्चर्यकरस्य चक्रचङ्कमणस्य मण्डलाकारगमनस्य मिषेण व्याजेन पदात्पद एक पदमितदेशमपि न गन्तव्य इत्येवम् । भवद्भिरिति शेष । विमताना शत्रूणा निरोवाय निरोव कतुम् । ‘क्रियार्थ-' इत्यादिना सप्रदानत्वम् । कुण्डलना राजाज्ञासूचकवर्तुलरेखा कुर्वद्भि लिखद्भिरिव्र स्थितै अर्वद्भि अक्ष्वैक्ष्च शोणितपङ्केन रक्तकर्दमेन शोणितै अरुणितै । अत एव वेगात् सभ्रमेण भ्रमणेन विदार्यमाणाया भिद्यमानाया धरण्या भुव रन्ध्रेभ्य निर्गत्वरया निर्गमनशीलया फणीन्द्रस्य शेषस्य फणासहत्रे मणीना किरणधोरण्या कान्तिपरम्परण भसृणितै ब्याप्तैरिव स्थितै चक्रे रथाङ्गै सफीडद्भि इतस्तत गच्छद्भि । शताङ्गै रथैक्ष्च भयानके लोकैकभयकरे समीके युद्धे सकलाना सुरजनाना तनूरुहाणा रोम्णा सुखशयन पृच्छतीति सौखशायनिके सति । अत्याश्चर्येण रोमाञ्चजनके सतीति यावत् । उत्तरेणैकवाक्यम् । ‘भयानक सकलसुरजनतनूरुहसौखशायनिक समीकमभूत् । तदनन्तरम्’ इति पाठान्तर दु शासनयुद्धे स्वकालिके खानन्तर्यबोधकत्वेन बाधितार्थकत्वादुपेक्ष्यम् । अत्र स्फुलिङ्गव्याजेनेति सापह्नवहेतूत्प्रेक्षायाश्च पट्टसवल्लरीभिरित्युपमायाश्च कबन्धशब्दक्ष्लेषभित्तिकाभेदा'यवसायमूलातिशयोक्तिसग्रामदेशिकेतिरूपकद्वयाभ्यसनफलोत्प्रेक्षयोरङ्गाङ्गिभावसकरस्य च तरणिर- न्प्रविशालीकरणफलोत्प्रेक्षायाश्च अटनिसुखेनेति रूपककथनफलोत्प्रेक्षयोरङ्गाङ्गि भावसकरस्य च परिचिचीषाहेतूत्प्रेक्षायाक्ष्च चक्रचक्रमणमिषेणेति सापह्नवस्वरूपोत्प्रेक्षायाश्च अष्टाना तिलतण्डुलन्यायेन ससृष्टि ॥


  1. ‘दूर दूरम्’ इति पाठ
  2. ‘प्रविसार यद्भि इति पाठ
  3. ‘शोणे ’ इति पाठ
  4. ‘सविदाय’ इति पाठ
  5. ‘भयानक' इति पाठ
  6. ‘शायनिक समीकमभूत’ इति पाठ