पृष्ठम्:चम्पूभारतम्.pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२६
चम्पूभारते


 [१]दनु त[२]त्र परस्परघट्टनजनितस्फुलिङ्गव्याजेन निपीतपूर्वा[३]न्रूधिरशीकरानजीर्णशङ्कया व[४]मन्तीभि पट्टसवल्लरीमिश्च कबन्धोत्पा[५]टनसृष्टिपाटवमेव[६]सग्रामदेशदेशिकसदेशाभ्यसितुमवनीतलमवतीर्णै[७] पयोधरपटलैरिव खेटकमण्ड्लैश्च युगपदेव बहुविधवीरयोधजनप्रवेशसौकर्याय तरणिरन्ध्रसरणि विशा[८]लयितुमिव वियत्तले [९]दूरमुच्चलिताभि शक्तिभिश्च प्रतिक्षणक्षपितविपक्षकुलवृत्तान्त मुहुर्मुहुरटनीमुखेन कथयितुमिव धानुष्ककर्णा[१०]भ्याश प्रत्यागतै कोदण्डदण्डैश्च युद्धविलोकनबद्धकौतुकसिद्धयौवतकुचमण्डलनिजकुम्भतारतम्यप[११]-


पदघट्टनजन्यै शोषितेषु निर्जलीकृतेषु सत्सु केवल एकस्मिन् गगन एव । अद्भिर्युक्त्ताना सरसा कुल पृन्द अप्सर कुल देवाङ्गनासमूहश्च लोकै जनै अलोक्यत दृश्यते स्म । अत्र दिवि भुवि प्रसक्तस्य अप्सरोवत्त्वस्य दिवि एकत्र नियमनात्परिसख्यालकार क्ष्लेषसकीर्ण । स्वागता ॥ २८ ॥

 तदन्विति । तदनु द्वयोर्मेलनानन्तरम् । तत्र युद्धदेशे परस्पर धट्टनेन अभिघातेन जनिताना स्फुलिङ्गाना अग्निकणाना व्याजेन पूर्व पूर्वयुद्धे निपीतान्निपीतपूर्वान् रुघिरशीकरान् रक्तबिन्दून् अजीर्णशङ्कया जाठरान्लापक्कभयेन वमन्तीभि उद्भिरन्तीभिरिव स्थिताभि पट्टसा खङ्गविशेषा वल्लर्य लता इव ताभिश्च कबन्धाना उदकाना अपमूर्धकलेवराणा च उत्पाटनस्य ऊर्ध्वप्रसारणस्य स्रष्टि जननव्यापार तस्या पाटव सामर्थ्यमेव सग्रामदेश युद्धभाग एव देशिक आचार्य तस्य सदेशात् समीपात् अभ्यसितु परिचेतुम् । तेषामध एव जलप्रसारकत्वादिति भाव । अवनीतल भूतल प्रति अबतीर्णै प्राप्तै पयोवरपटलै मेघहृन्दैरिव स्थितै खेटकमण्डलै फलकसमूहैश्च युगपत् एकदैव बहुविधाना वीराणा योधजनाना परावृत्य मृत्वा सुरीभूताना प्रवेशस्य सौकर्याय सौलभ्याय तरणे सूर्यबिम्बस्य रन्ध्रसरणि बिलमार्ग बिशालयितु विस्तारयितुमिव वियत्तले आकाशदेशे दूरमुच्चलिताभि उन्नमिताभि शक्तिभिश्च क्षणे क्षणे प्रतिक्षण क्षपितस्य नाशितस्य विपक्षाणा शत्रणा कुलस्य पृन्दस्य वृत्तान्त अटनि धनुष्कोटिंरेव मुख वक्त्र तेन मुहुर्मुहु कथयितु इव । धानु


  1. ‘तदनु’ इति नास्ति कचित्
  2. ‘तत्र तयो सेनयोरुभयोरपि परस्पर इति पाठ
  3. ‘शीकरनिकरान् ’ इति पाठ
  4. ‘वम तीभिरिव’ इति पाठ
  5. ‘उत्पादन', ‘उत्पतन इति च पाठ
  6. ‘एव’ इति नास्ति कचित्,‘अपि’ इति पाठ
  7. वलयै ‘ इति पाठ
  8. ‘अतिविशाळयितु’ इति पाठ
  9. ‘दूर दूरम्’ इति पाठ
  10. ‘कणमभ्यागतै ,‘कर्णाम्यर्णमभ्यागतै इति च पाठ
  11. ‘परिचिक्षिषया’ इति पाठ..