पृष्ठम्:चम्पूभारतम्.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२५
एकादश स्तबक ।


कर्मसाक्षिनन्दनोऽपि रौक्ष्यव [१]र्जित पदविभागचमत्कृतिसुभगभावुक वचनमेवम[२]वादीत् ॥

,

अयि भागिनेययशसा सुभगक[३]रणस्त्वमद्य भुवि मद्रपते ।
मम मा तुलेति बहुधा वदता विजयेन शभुमपि मातुलय ॥ २६ ॥
 इत्युक्तवत एतस्य सौरेर्दन्त[४]पुटाविव ।
 जवादुभावनीकौ तौ ज[५]घटेते परस्परम् ॥ २७ ॥
सर्वतोऽपि भुवि सैन्यपरागै शोषितेषु सजलेषु सर सु ।
केवल गगन एव तदानीमप्सर कुल[६] मलोक्यत लोकै ॥ २८ ॥
,


शल्यस्य सुबन्धि ऋभुक्ष्ण इन्द्रस्य कुमारे अर्जुने पक्षपात आत्मीयत्वेन अभि निवेश समीक्ष्य आलोच्य कर्मसाक्षिण सूर्यस्य नन्दन कर्णोऽपि रूक्षस्य भाव रौक्ष्य पारुष्य तेन वर्जितम्। किच पदस्य मातुलेति शब्दस्य विभागेन ‘मा तुला’ इति पृथक्करणेन या चमत्कृति प्रागल्भ्य तथा सुभगभावुक रमणीय वचन एव वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् । वदे कर्तरि लुडि सिचि पृद्धि ॥

 अथीति । आयि हे मद्रपते शल्य, अद्य भगिन्या उपचारात्कुन्त्या अप त्यस्य भागिनेयस्य अर्जुनस्य । स्त्रीभ्यो ढक् इति ढक्येयादेश । यशसा परात्र्क मजन्याना सुभगकरण प्ररयापक त्व विजयेन सर्वोत्कर्षेण हेतुना तुला केनापि साम्य मा न इति बहुधा वदता ब्रुवता । आत्मस्तुतिपरायणेनेति यावत् । एव हे मम मातुल स्वमातृसहोदर, इति बहुधा वदता विजयेन अर्जुनेन सह शभु मपि मा तुलय सदृश मा करु । सर्वोत्कृष्टाना शभोरप्यपकृष्टत्वसभावनावश्यक त्वादिति भाव । अनेन मूढामभिमानस्तिरस्कृतसकलान्तर इति हासो व्यङ्गय । अत्र भागिनेयेत्यादिविशेषणस्य पक्षपातित्वेन शल्यवचनस्यातात्त्विकत्वमित्यभिप्रायगर्भल्लात्परिकरालकार । सुमङ्गलीपृत्तम् ॥ २६ ॥

 इतीति । इत्युक्तप्रकारेण उक्तवत एतस्य सूर्यस्य अपत्य सौरि कर्ण तस्य। अत इञ् । दन्तपुटौ ऊर्घ्वाधरोष्ठाविव तावुभावनीकौ कुरुपाण्डवसैन्ये परस्पर जवात् वेगात् जघटेते सयुयुजतु । घटते कर्तरि लिट् । तत पर न किचिदप्यवदत् । सकुल चाभूत्सैन्यद्वयमित्यर्थ । अत्र कर्णोष्ठ्यो सैन्ययोश्च प्रकृतयोमिथो मेलनेनौपम्यस्य गम्यत्वात्तुल्ययोगिताभेद । युग्मविपुलावृत्त क्ष्लोको वा ॥२७॥

 सर्वत इति । तदानीं सेनाद्वयसघटनसमये भुवि सर्वत सर्वत्रापि सजलेषु जलसहितेषु सर सु सैन्ययो कौरवपाण्डवीययो सबन्धिभि परागै


  1. ‘वर्जम्' इति पाठ
  2. ‘अभाणीत्' इति पाठ
  3. ‘करणत्व' इति पाठ
  4. पटौ’ इति पठ.
  5. ‘जघटाते’ इति पाठ
  6. ‘अदृश्यत’ इति पाठ