पृष्ठम्:चम्पूभारतम्.pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२३
एकादश स्तबक ।


 शरामिवर्षेण धनजय तमिङ्गालयेदेष भुज क्षणेन ॥ २१ ॥
 ततस्त [१]च्छूवणपुटक्रकच कर्णव[२]चनमाकर्ण्य पार्थेन पुरा
 प्रार्थितमर्थ हृदिकृत्य स मद्रभूपतिरप[३]वार्यावार्यसूर्य[४]तनयधैर्य
गगनकुसुमसोदर्य विधातुमेवमुत्तरमुत्तरङ्गयामास ॥
पुरा विराटस्य पुरोपकण्ठे रणाङ्गणे सारथिनार्जुनस्य ।
उत्पाट्यमानेऽपि रयेण नेत्रे निद्रा कथ ते हृदयगमासीत् ॥ २२ ॥
 आयासलेशरहित वनसीन्भि पूर्व
  सदानिते सुहृदि ते सुरवै[५]णिकेन ।
,


उपलाल्यमान सवध्यमान क्ष्लाध्यमान च। दीप्र प्रकाशमान अखिलाना सम- स्ताना हेतीना ज्वालाना आयुधाना च जाल यस्य तथोक्त्त त प्रसिद्ध धनजय अग्नि अर्जुन च । एष मदीय भुज शराणा जलाना बाणाना च अभितो वर्षेण । क्षणेन अविलम्बेन । इङ्गलयेत् निवापयेत् । इङ्गाल सिक्ताङ्गारम् । अत्र मरुतर एव मस्त इति सर्वत्र रूपणात् क्ष्लिष्टसावयवरूपकम् । उपजाति ॥ २१ ॥

 तत इति । तत कर्णकथनानन्तर स मद्रभूपति शल्य । अवणे पुटे इव तयो क्रकच करपत्र तत् कणोक्त्त वचन आकर्ण्य पार्थेन युधिष्ठिरेण पुरा प्रार्थित याचित अर्थे कर्णतेजोवधात्मक्हृदि कृत्य मनसि स्मृत्वा । ‘अङ्गीकृत सुकृतिन परिपालयन्ति’ इति न्यायादिति भाव । अपवार्य तद्वचनमाक्षिप्य । अवार्थेति अवार्थ दुनिवारमिति वैर्य विशेषणम्। सूर्यतनयस्य धैर्ये गगनकुसुमस्य सोदर्य सदृशम् । अत्यन्तमिथ्याभूतमिति यावत् । विधातु कर्तु एव वक्ष्यमाण उत्तरं प्रतिवाक्य उत्तरङ्गयामास । उवाचेत्यर्थ ॥

 तक्तिप्रकारमेवाह चतुभि –पुरेति। हे कर्ण, पुरा उत्तरगोग्रहणकाले विराटस्य राज्ञ पुरोपकण्ठे नगरसमीपे रणाङ्गणे युद्धदेशे अर्जुनस्य सारथिना उत्तरेण ते तव नेत्रे वस्त्रे च । ‘वस्त्रलोचनयोर्नेत्रम् ’ इति विश्व । रयेण वेगेन उत्पाट्यमाने पक्ष्मावरणशून्यतया क्रियमाणे सत्यपि अपह्रियमाणे सत्यपीति च । निद्रा गान्धर्वास्त्रकृता हृदयगमा रुच्या कथमासीत् । अत्रोत्तरेणैव सारथिना तथाकियमाणेऽपि निद्रासीदिति वस्तुना तादृशस्य तव सारथि मामवलोक्य अद्यतनविजयसारथेर्भगवतो भवेदेव लज्जया मुखावनमनमित्यपहासात्मकस्य प्राथमिक प्रश्नोत्तरस्य वस्तुन प्रतीतेर्वस्तुना वस्तुध्वनि । उपजाति ॥ २२ ॥

 आयासेति । पूर्व घोषयात्राकाले वनसीन्मि द्वैतवनप्रदेशे ते तव सुहृदि ढुया- धने सुवैणिकेन चित्रसेनेन आयासस्य लेशेनापि रहित यथा तथा सदा-


  1. ‘ताम्' इति पाठ
  2. बाचम्’ इति पाठ
  3. ‘पवाया’ इति नास्ति कचित्
  4. ‘पत्र” इति पाठ
  5. वाशिकेन” इति पाठ