पृष्ठम्:चम्पूभारतम्.pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२२
चम्पूभारते

,

 तत क्षणादेव रथेन तेन सग्रामसीमानमुपेत्य वीर ।
 शङ्ख तदन्त्याक्षरवाच्यमेतद्वय निनादैरपुपूरदेष ॥ २० ॥
,

 [१]दनु [२]चण्डतरदोर्दण्डक्ष्चण्डकरसूनुर्निजयन्तार मद्रनेतार प्रति वचनमित्थमुत्थापयामास ॥

 इदानीमयि शल्य, तव सारथ्य[३]कौशल्य नि[४]शाम्य विजयसारथेर्वजैन लज्जापयोधि सहमज्जनकृते नाभिकमलवास्तव्यस्य नयनायुधसारथेश्चत्वार्यपि मुखानि समाह्वयितुमिव[५] भृशमवनतमास्ते ॥

 [६]पि च

 मरुत्कदम्बैरपलाल्यमान मद्रेन्द्र दीप्रा[७]खिलहेतिजालम्


 तत इति । तत एष वीर कर्ण तेन शरयसारथिकेन रथेन सग्रामसी मान युद्धदेश क्षणादेव उपेत्य प्राप्य शख च तस्य शङ्खस्य सबम्धि यदन्त्यमक्षरं खकार तस्य वाच्य आकाश च एतत् उक्तविध द्वय निनादै भाकारै अपुपूरत् पूरयामास । पूरयतेलुडि चडि द्वित्वाभ्यासलोपहखा । शङ्खसबन्धीत्यत्र सबन्ध स्ववाचकत्वरूपो ग्राह्य साक्षात्सबन्धग्रहे त्वसमर्थत्वाख्य पददोष इति ध्येयम् । उपजाति ॥ २० ॥

 तदन्विति । तदनु तदनन्तरम् । चण्डतरौ अत्यन्तशत्रुभयकरौ दोषौ भुजौ दण्डाविव यस्य तथोक्त्त चण्डकरस्य सूनु कर्ण । निज आत्मीयश्चासौ यन्ता सारथिश्चेति वैवक्षितविशेषणविशेष्यभावात्समास । त मद्वाणा नेतार नायक शत्य प्रति इत्थ वक्ष्यमाणप्रकार वचन उत्थापयामास उदीरितवान् । तिष्ठतेर्ण्यन्तादुत्पूर्वाल्लिट्यामादेशास्त्यनुप्रयोगौ ।‘अर्तिही-' इत्यादिना णौ पुगागमश्च ।

 इदानीमिति । अयि हे शल्य, इदानी तव सारथ्ये सारथिकृत्ये कौशल्य चातुर्य निशाम्य दृष्ट्वा । विजयस्य अर्जुनस्य सारथे श्रीकृष्णस्य वदन मुख कर्तु । लज्जैव पयोधि तस्मिन् सहमजनकृते सहमज्जनार्थ नाभिरेव कमळ तस्मिन् वास्तव्यस्य निवासिन नयन अग्निमय आयुध यस्य तस्य शभो सारथे ब्रह्मण चत्वारि मुखान्यपि समाह्वयितुमिवेत्युत्प्रेक्षा । भृश अवनत विनम्र सत् । आस्ते वर्तते ।

 अपिच । किंचेयर्थ अस्योत्तरेणान्वय

 मरुदिति । हे मद्रेन्द्र शल्य, मरुता बायूना देखना च कदम्बै वृन्दै


  1. ‘तदनन्तरम्' इति पाठ
  2. ‘प्रचण्ट’ इति पाठ
  3. ’कोशलम्’ इति पाठ
  4. ‘पयोधौ’ इति पाठ
  5. ‘पयोधौ’ इति पाठ
  6. ‘अपि च' इति नास्ति कचित्
  7. दीप्ताखिल इति पाठ