पृष्ठम्:चम्पूभारतम्.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२०
चम्पूभारते


अवलोकनाय हरिदन्तरे भया-
 द्रवतामरतिधरणीभुजामिव ॥ १७ ॥
अप्राप्तनूतनशरक्षतिभि स्वसैन्यै-
 रस्पन्ददृष्टिभिरनुक्षणमीक्ष्यमाण ।
दुर्योधनाग्रकरसवलेताङ्गुलीक
 प्राविक्षदात्मकटक स तु भानुसूनु ॥ १८ ॥
,

 [१]परेघु [२]परिस्फुरितकमलचक्रव्यूहे प्रकाशमानपत्रिकुलसचारे प्रकटितघ्ननजयतेजोवर्धने भाविनि प्रधन इव प्रभातसमये प्रादु-


अन्तरे मध्ये द्रवता पलायमानाना अरातिधरणीभुजा शत्रुराजाना अवलोकना येवेत्युत्प्रेक्षा । विनम्रता नम्रभाव विजहौ तत्याज। ऊर्ध्वं दीर्घाभूतमभूदित्यर्ध । मजुभाषिणी ॥ १७ ॥

 अप्राप्तेति । स भानुसूतु कर्ण । तुशब्दोऽप्यर्थ । अप्राप्ता अलना नूतना नवा । भीष्मद्रोणयुद्धकालिकभिना इति यावत् । शरक्षतय शात्रवबाणव्रणानि यैस्तै अतएव स्वसेन्यै कतृभि अस्पन्दाभि आश्चर्यान्निश्चलाभि दृष्टिभि क्षणे क्षणे अनुक्षण ईक्ष्यमाण सन् । किंच दुर्योधनस्य अग्रकरेण सवलिता गृहीता अङ्गुली कनिष्ठिका यस्य तथोक्त सन् । ‘नघृतश्च' इति कप्प्रत्यय । आत्मन कटक शिविर प्राविक्षत् । विशते कर्तरि कुड् । अत्र नूतनबाणत्रणराहित्यस्य विशेषणगत्या अनुक्षणनिष्पन्ददृङ्गिरीक्षणहेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् । वसन्ततिलका ॥ १८ ॥

 परेघुरिति । परेघु परस्मिन् दिने परित स्फुरिता चरन्त प्रकाशमाना वा कमलाना चक्राणा चक्रवाकाना च व्यूह्या समूहा यस्मिंस्तस्मिन् । परित स्फुरन्तौ कमलचक्रव्यूहौ पद्मचक्राकारबलविन्यासौ यस्मिस्तस्मिनिति च । परित स्फुरित पद्माकारबलविन्यासो यस्मिंस्तस्मिन्निति वा। ‘चत्र्क रथाङ्गे सेनायाम्’ इति विक्ष्व । प्रकाशमान पत्रिणा पक्षिणा बाणाना च कुलस्य वृन्दस्य सचार यस्मिस्तस्मिन् प्रकटित धनजयस्य अग्ने आहवनीयादे तेजस वर्धन प्रज्वलन यस्मिस्तस्मिन्। प्रकटित धनजयय अग्ने तेजस प्रकाशस्य वर्धन च्छेदन यस्मिंस्तस्मिन्निति वा। ‘वधन छेदने’ इत्यमर । दिवाग्नेर्निष्प्रकाशत्पूर्वत्र यज्वभि प्रातरग्निहोत्रकरणादिति च भाव । अन्यत्र प्रकटित धनजयस्य अर्जुनस्य तेजस प्रतापस्य वर्धन यस्मिंस्तस्मिन् । अतएव भाविनि भविष्यति प्रधने युद्ध इव स्थिते प्रभातसमये प्रात काले प्रादुर्भवति सति । मधु नाम दानव मथ्नातीति मधुम-


  1. ‘विपरिस्फुरत्' इति पाठ
  2. परेघु ‘अपरेघु ’ इति पाठ