पृष्ठम्:चम्पूभारतम्.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१३
दशम स्तबक ।


क्त्तचापशय स्थण्डिलेशय भारद्वाजमालोक्य [१] हृ[२]ष्टतरधीधृष्टघु[३]म्नो निजपितृबन्धन[४]स्मृतिजनुषा रुषा सत्वरमेत्य हन्तुमु[५]दयुङ्क्त्त ॥

,

 एकेन स्वङ्ग द्रुपदस्य सूनु करेण चान्येन क[६]च गृहीत्वा ।
 विलूय शीर्ष गुरुमप्यमु द्रागन्ते[७]वसन्त कलयाचकार ॥ ९७ ॥
  तत्तादृश तदनु तातवध निशम्य
   कोपातिरेककलुष कूपभागिनेय ।
  आग्नेयमस्त्रममुचत्परसैनिकाना-
   मक्षौहिणीशलभता लभते स्म तस्मि[८]न् ॥ ९८ ॥
 तत सुराधीश्वरसूनुमुक्तब्रह्मास्त्रभासा भृशधिक्कृतेन ।
 अस्त्रेण सार्ध गुरुनन्दनस्य मन्दायमानधुतिरास भानु ॥ ९९ ॥
 ,


विरुद्धकान्त्या भरित पूर्ण वदन मुख यस्य तथोक्त्त सुतनाशशोकेन पुत्रविपत्तिह खेन यो मोह चित्तविकार तेन परित्यक्त्त चाप येन ताद्दश शय हस्त यस्य तथोक्त्त स्थण्डिले दर्भास्तरणे शेत इति शय भारद्वाज द्रोण आलोक्य हृष्टतरा अतिसतुष्टा धी मन यस्य तथोक्त्त धृष्टघुम्न निजस्य पितु द्रुपदस्य बन्धनस्य अर्जुनकारितस्य स्मृते स्मरणात् जनु जन्म यस्यास्तथोक्रया रुषा कोपेन उपलक्षित सत्वरं एत्य आगत्य हन्तुमुदयुङ्क्त्त उघुक्त्तोऽभूत् । युञ्जे कर्तरि लड ॥ •

 एकेनेति । द्रुपदस्य सूनु धृष्टघुम्न एकेन करेण दक्षिणेन खङ्ग गृहीत्वा अन्येन सव्येन करेण कच द्रोणशिख च गृहीत्वा शीर्ष शिर विलूय छित्त्वा गुरुमप्यमु द्रोण द्राक् शीघ्र अन्तेवसन्त शिष्य समीपे वर्तमान च कलयाचकार अकरोत् । विरोधाभास ॥ ९७ ॥

 तदिति । तदनु तत्तादृश लोकैकजुगुप्सित तातस्य पितु वव निशम्य कोपातिरेकेण कोपातिशयेन कलुष क्षुब्ध कृपस्य भगिनी कृपी तदपत्य भागिनेय अश्वत्थामा आग्नेय अस्त्र अमुचत् प्रयुक्तवान् । तस्मिन्नाग्नेयास्ने परसैनिकाना अक्षौहिणीशलभता अग्निपतयालुकीटविशेषतौल्य लभते स्म । भस्मीभूतेत्यर्थे । उपमालकार ॥ ९८ ॥

 तत इति । तत अक्षौहिणीभस्मीभावानन्तरं सुराधीश्वरसूनुना अजुनेन मुक्तस्य प्रयुक्त्तस्य ब्रह्मास्त्रस्य भासा तेजसा भृश धिक्कृतेन निराकृतेन गुरुनन्दनस्य अश्वत्थाम्न अस्त्रेण सार्धे आग्नेयास्त्रेण सह भानु सूर्य मन्दायमाना क्षीणा भवन्ती घुति तेज यस्य तथोक्त्त आस अवर्तत । अस्तगत इत्यर्थे । अत्र सूर्यस्यास्तगमने आग्नेयास्त्रसाहित्यवर्णनात्सहोक्त्तिरलकार ॥ ९९ ॥


  1. ‘अवलोक्य’ इति पाठ
  2. ‘हृष्टधी ’ इति पाठ
  3. घुम्नोऽपि’ इति पाठ
  4. ‘वधस्मृति’ इति पाठ
  5. ‘अभिहन्तु’ इति पठ
  6. ‘कचे’ इति पाठ
  7. ‘तम्’ इति पाठ
  8. ’यस्मिन्’ इति पाठ