पृष्ठम्:चम्पूभारतम्.pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१२
चम्पूभारते


प्र[१]चेतसमिव पयोधरपरम्परा पुरोधाय भृश खस्य गुण शङ्खस्य परिः। पूरणेन दुर्वह कुर्वन्त कौ[२]रवसेनापतिमभिजग्मु ॥

,

कोपेन तावत्कुटिल स भीम
 कुम्भानभाङ्क्षीद्रदया ग[३]जनाम् ।
नामैकदेशोऽपि च कुम्भयोने
 रेतैर्धृतोऽभूदिति मत्सरीव ॥ ९६ ॥
,

 [४]इति तत्र [५]ता करिघटा [६]पाटयता घटोत्कचजनकेन द्रोणसुतस्य खनाम्नि हस्तिनि पातिते सति प्रचुरतरमद स्ववशानुवर्ती शुभतरमणिदेदीप्यमानमस्तकोऽ[७]यमश्वत्थामा हत इति धर्मतनयगदित कर्णा[८]रुतुदमभ्यर्णमाकर्ण्य वैवर्ण्यभरितवदन सुतनाशशोकमोहे[९]न परित्य-


तीति विमाथिनीं वारणधोरणी गजपङ्कि पुरोधाय अग्रे निधाय शङ्खस्य परिपूरणेन आध्मानेन खस्य आकाशस्य गुण शब्द भृश दुवह दुर्भरम् । आकाशस्येवेति भाव । खस्येति शेषो वा । आत्मन इत्यर्थ । कुर्वन्त कौरवसेनापति द्रोणम् । पयोवरपरम्परा मेघपङ्कि पुरोवाय । पुरस्कृतपयोधरपरम्परमित्यर्थ । प्रचेतस वरु- णमिवेत्युपमा । अभिजग्मु अभिमुख गच्छन्ति स्म । रूपकोपमयो ससृष्टि ।

 कोपेनेति । तावत् तदानी कोपेन कुटिल भयकर स भीम एतै गजकु म्मै कुम्भयोने द्रोणस्य नाम्नि कुम्भयोनिरिति सज्ञाया एकदेशोऽपि च कुम्भेत्यशमात्रमपि वा धृत नामत्वेन स्वीकृतोऽभूदित्युक्त्तहेतो मत्सर द्वेष अस्यास्तीति मत्सरीवेत्युत्प्रेक्षा । गदया गजाना कुम्भान् अभङ्क्षीत् भञ्जयामास । भजे कर्तरि लुड् ॥ ९६ ॥

 इतीति ।इत्युक्त्तप्रकारेण तत्र युद्धरङ्गे ता धृष्टघुम्नवरूथिनीविमाथिनी करि घटा गजवृन्द पाटयता भञ्जयता घटोत्कचस्य जनकेन भीमेन द्रोणसुतस्य अश्वत्थाम्न समान अभिन्न नाम अश्वत्थामेति सज्ञा यस्य तस्मिन् । ‘ज्योतिर्जनपदइत्यादिना समानशब्दस्य सभाव । हस्तिनि गजे निपातिते सति तत्र करिधटामध्ये द्रोणसुतस्य सनाम्नि हस्तिनीति वा योजना । प्रचुरतर बहुल मद बलगर्व दानजल च यस्य स स्ववश स्वेच्छ यथा तथा स्वस्य वशा करिणी च अनुवर्तत इत्यनुवर्ती शुभतरै अत्यन्तशुभप्रदै मणिभि किरीटगतै अन्तर्गतमौक्तिकैश्च देदीप्यमान मस्तक शिर यस्य तथोक्त्त अय अश्वत्थामा द्रोणसुत तन्नामकगजश्च हत इत्युक्त्तप्रकार कर्णयोररुतुद मर्मघाति धर्मतनयस्य धर्मराजस्य गदित वचन अभ्यर्ण समीप यथा तथा। समीप इति यावत् । आकर्ण्य वैवर्ण्येन


  1. ‘प्रचेता इव’ इति पाठ
  2. ‘कुरुसेनाधिपति’ इति पाठ
  3. ‘द्विपानाम्’ इति पाठ
  4. ‘इति’ नास्ति कचित्
  5. ‘ता इति नास्ति कचिव
  6. ‘पातयता’ इति पाठ
  7. निपातिते’ इति पाठ
  8. ‘निगदित” इति पाठ
  9. ‘मोह इति पाठ ,