पृष्ठम्:चम्पूभारतम्.pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१०
चम्पूभारते

,

 तस्यार्धमग्ना नाराचास्तन्वा तद्विक्रमश्रिय ।
 रोचन्ते स्म प्रहृष्यन्त्या रोमाञ्चानामिवाड्कुरा ॥ ९४ ॥
 [१]ग्निदेश्येन निक्षिप्तमथोभौ द्रोणपार्षतौ ।
 कोदण्डविद्यासर्वस्व त[२]न्वाते स्म प्रकाशितम् ॥ ९५ ॥
,

 तत शरसभवभगिर्नीजानेक्ष्चापचतुर्मुखो वृ[३]द्धत्वविश्राणितविकृतवेषयोरपि विशिखविमोचनसृष्टिशिल्पेन विलोभनीयविग्रहीकृतयोर्विराटपा[४]ञ्चालयोर्वरणोत्सवयौगपघे [५]सति विबुधपुरवि[६]लासिनीना बि[७]डौजस कुटुम्बिन्या अपि दु समा[८]धेय विवादमापादयामास ॥


 तस्येति । तस्य द्रोणस्य तन्वा शरीरे अर्धमग्ना अवगाढा नाराचा द्रुपदविराट्प्रयुक्ता प्रकर्षेण हृष्यन्त्या मोदमानाया तस्य द्रोणस्य विक्रम श्रिय पराक्रमलक्ष्म्या रोमाञ्चाना पुलकाना अङ्कुरा इवेत्युत्प्रेक्षा । रोचन्ते स्म । बभु ॥ ९४ ॥

 अग्निदेश्येनेति । अथ द्रोण पार्षत द्रुपदश्च तावुभौ अग्निदेश्येन नाम मुनिना निक्षिप्त न्यासीकृतम् । उपदेशव्याजादिति भाव । कोदण्डविद्या बनुर्नैपुण्यमेव सर्वस्व यावद्धन प्रकाशित तन्वाते स्म । यथाभ्यस्तयावद्धविघानैषुण्यमग्निवेश्योपदिष्ट प्रकटीचकतुरित्यर्थ ॥ ९५ ॥

 तत इति । तत शरसभवस्य कृपस्य भगिनी कृपी जाया यस्य तस्य द्रोणस्य । ‘जायाया निड्। चाप एव चतुर्मुख ब्रह्मा वृद्धत्वेन जरसा बाणैश्छेदनेन च विश्राणित कृत विकृत जुगुप्सित वेष आकार ययोस्तथोक्तयोरपि विशिखाना बाणाना बिमोचन सघटनमेव सृष्टिशिल्प सृजनव्यापार तेन (करणेन) विलोभनीय कामनीय विभि पक्षिभि लोभनीयश्च विग्रह देह ययोस्तथोक्तयो कृतयो । कृद्योगादभूततद्भावे च्वि । निहत्य देवभूय प्रापितयोरिव्यर्थ । विराटस्य पाञ्चालस्य द्रुपदस्य च द्वयो सबन्धिन वरणोत्सवस्य यौगपघे समकालिकत्वे सति बिडौजस इन्द्रस्य कुटुम्बिन्या शच्यापि दु समाधेय समाधातुमशक्य विबुधपुरे स्वर्गे विलासिनीना अप्सरसा विवाद अहमेवैत प्रणुया अहमेवैत वृणुयामिति वाकळलह आपादयामास अजनयत् । चापमुक्त्तै शरैस्तावुभावपि निपातितवान् । द्रोण इत्यर्थ । अत्र विराटद्रुपदक्षपणस्य देवाङ्गनाविवदनरूपेण वर्णनात्पर्यायोक्तस्य चापचतुर्मुख इत्यादिसावयवरूपकसापेक्षत्वाद्दयोरङ्गाङ्गिभावेन सकर ॥


  1. ‘अग्निवेश्येन इति पाठ
  2. ‘कुर्वाते’ इति पाठ
  3. ‘अतिवृद्धत्व, ‘समृद्ध’ इति च पाठ
  4. ‘पांचाळयोरहपूर्विकया’ इति पाठ
  5. ‘सति’ इति नास्ति कचित
  6. ‘बारविलासिनीना'इति पाठ
  7. विडौज ‘इति पाठ
  8. ‘दु समाध’ इति पाठ