पृष्ठम्:चम्पूभारतम्.pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०८
चम्पूभारते


 तत्रान्तरे ।

,

वाहिन्या एव मे नार्ध मेदिन्या अपि नङ्क्षयति ।
क्षण युद्धयेत चेदेष इति मेने सुयोधन ॥ ९१ ॥
,

 इत्थ नितान्तचिन्ता[१]सतानार्दितस्य धा[२]र्तराष्ट्रस्य सप्रा[३]र्थनागुणनिकया सभृतसर्वाभिसारो मिहिरकुमारो वज्रधारया महेन्द्रो महीध्रमिव तेन दत्तयावलक्षाश्चक्षपणदक्षेयमिति चिररक्षितया महत्या शक्त्तया वक्षसि निभि[४]द्य क्षणेन त क्षणदाचर क्षितौ नि[५]पातयामास ॥

,

पौत्रस्य तस्य प्र[६]बलस्य शक्ते प्रहरपीडा प्रतियोधिदत्ताम् ।
अपारयन्द्रष्टुमिवातिघो[७]रामन्त स्थितो वायुरगाद्वहिष्ठात् ॥ ९२ ॥


 तत्रान्तरे । तस्मिन्समये इत्युत्तरेणान्वय ॥

 वाहिन्या इति । एष घटोत्कच क्षण युघ्घेत चेत् युद्ध क्रियेत यदि मे मम सबन्विन्या वाहिन्या सेनाया अर्धमेव न नङ्क्षयति । अर्घस्य प्रथमयुद्धदि वसादारभ्य पाण्डवैर्नाशितत्वादिति भाव । कितु मे मेदिन्या भुव अर्धमपि नह्यति । आत्मान जित्वा अदात्वैवार्ध पित्र्यमप्यश भुव भोक्ष्यन्ति पाण्डवा इत्यर्थ । इत्युक्तप्रकार सुयोधन मेने तर्कितवान् ॥ ९१ ॥

 इत्थमिति । इत्थ उक्तप्रकारात् नितान्त चिन्ताना सतानात् समूहात् आर्दितस्य पीडितस्य धार्तराष्ट्रस्य दुर्योधनस्य सम्यक्प्रार्थनाना गुणनिकया पर म्परया सभृत स्वीकृत सर्वाभिसार सर्वोद्योग घटोत्कचवधविषयक येन तथोक्त्त मिहिरस्य सूर्यस्य कुमार कर्ण महेन्द्र वासव वज्रस्य आयुधस्य धारया महीं धरतीति महीध्र गिरिमिव तेन महेन्द्रेण दत्तया इय शक्ति वलक्षा क्ष्वेता अश्वा यस्य तस्य अर्जुनस्य क्षपणे मारणे दक्षा समर्था । इति प्रेम्णेति शेष । चिरात् रक्षितया गुप्तया महत्या शक्त्या नाम आयुधेन त क्षणदाचर राक्षस घटोत्कच वक्षसि निर्भिद्य क्षणेन क्षितौ भुवि निपातयामास पातितवान् । उपमालकार ॥

 पौत्रस्येति । प्रबलस्य प्रकृष्टबलस्य पौत्रस्य पुत्रपुत्रस्य तस्य घटोत्कचस्य अन्त स्थित शरीरान्तर्गत वायु प्राणानिक प्रतियोघिना शत्रुणा कर्णेन दत्ता कृता शक्ते आयुधस्य प्रहारेण या पीडा बाबा ताम् । तदीयामिति शेष । द्रष्टुमपारयन् अशक्रुवन्निवेत्युत्प्रेक्षा। बहिष्ठात् शरीरात् बहि अगात् निर्गतवान् । घटोत्कचो ममारेत्यर्थ ॥ ९२ ॥


  1. ‘सतानादातस्थ’ इति पाठ
  2. ‘धार्तराष्ट्रस्य ' इति नास्ति कचित्
  3. ‘सप्राथन' इति पाठ
  4. निभेघ' इति पाठ
  5. ’यक्षिपत्, पातयामास’ इति च पाठ
  6. ‘प्रबलप्रसिद्धे’ इति पाठ .
  7. ‘योध' इति पाठ