पृष्ठम्:चम्पूभारतम्.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९९
दशम स्तबक ।


,

अथ सोमदत्तनुजो रमापतेरनु[१]जोऽपि भन्नरथसूतकार्मुकौ ।
परिगृह्य पट्टसळता परस्पर प्रधन भ[२]यकरमुभौ वितेनतु ॥ ६६ ॥
अथ शिनितनय निपात्य भू[३]म्यामुरसि धृतासिरसौ तु सौमदत्ति ।
गलयितुमिव गर्वसारमन्तार्निजचरणेन निपीडयाच[४]कार ॥ ६७ ॥
तदा हरिर्दूरगतोऽपि नाक्ष व्यापारयामास रथेऽर्जुनस्य ।
निजानुजातोरसि दत्तपादे भूरिश्रवस्येव महारथेऽस्मिन् ॥ ६८॥
चोदितस्य हरिणा किरीटिनो मार्गणेन हृतहस्तपल्लव ।
सोमदत्ततनयो न केवळ कौरवा अपि विहस्तता ययु ॥ ६९ ॥
,


रुणद्धे कर्तरि लिट् । ‘हठात्ततो रुरूवतु ’ इत्येव पाठ । ‘उभो रुरुधतु’ इति पाठे उक्तसदर्भालाभादिति । वृत्त पूर्ववत् ॥ ६५ ॥

 अथेति । अथ सोमदत्ततनुज भूरिश्रवा रमापते श्रीकृष्णस्य अनुजोऽपि सात्यकिश्च उभौ द्वौ भग्नानि रथ सूत सारथि कार्मुक चाप तानि ययोस्तथोक्त्तौ सन्तौ पट्टस खङ्गविशेष लतेव ता परिगृह्य परस्पर अन्योन्य भयकर प्रधन द्वन्द्वयुद्ध वितेनतु चक्रतु । मञ्जुभाषिणी ॥ ६६ ॥

 अथेति । अथ धृत असि पट्टस येन स असौ सौमदत्ति सोमदत्तपुत्र भूरिश्रवास्तु शिनितनय सात्यकि भूम्या निपात्य पातयित्वा अन्त मनसि य गर्व तस्य सार स्थिराश त गलयितु वमयितु इवेत्युत्प्रेक्षा । उरसि सात्यकेर्वक्षसि निजेन चरणेन निपीडयाचकार निष्पीडितवान् । पुष्पिताग्रावृत्तम् ॥६७॥ तदेति । तदा सात्यक्युरोनिष्पीडनसमये दूरगत । दूरे वर्तमानोऽपीत्यर्थ । हरि श्रीकृष्ण अर्जुनस्य रथे अक्ष चक्र चक्षुरिन्द्रिय च न व्यापारयामास न चलितवान् । रथ न चोदयामासेति यावत् । सात्यक्यपायभयादिति भाव । कितु निजस्य अनुजातस्य सात्यके उरसि दत्त निहित पाद रथचरण च येन तथोक्ते अस्मिन् भूरिश्रवसि नाम महारथे रथश्रेष्ठे रथिकश्रेष्ठे चैव अक्ष व्यापारयामास । विहायार्जुनरथप्रेरण तमेवापश्यदित्यर्थ । अत्र दूररूपप्रतिवन्धकसत्त्वेऽपि भूरिश्रवसि चक्षुर्व्यापारवर्णनाद्विभावनाभेदस्य उक्त्तप्रतिबन्धकाभा वरूपसामग्रीसत्त्वेऽपि अर्जुनरथे तद्वयापारानुदयस्य वर्णनाद्विशेषोक्तेश्च उभयो क्ष्लेषानुप्राणितयो समृष्टि ॥ ६८ ॥

 चोदितस्येति ।हरिणा श्रीकृष्णेन चोदितस्य प्रेरितस्य । भूरिश्रवोवधायेति भाव । किरीटिन अर्जुनस्य मार्गणेन बाणेन हृत छिन्न हस्त पल्लव इव यस्य तथोक्त्त सोमदत्तस्य तनय केवळ भूरिश्रवा एव विहस्तता हस्तशून्यत्व न ययौ न प्राप । कितु कौरवा सर्वेऽपि विहस्तता व्याकुलत्व च ययु । ‘विहस्तो व्याकुल


  1. ‘च' इति पाठ
  2. ‘भयानक” इति पाठ
  3. ‘भूमौ’ इति पाठ .
  4. बभूव’ इति पाठ