पृष्ठम्:चम्पूभारतम्.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९५
दशम स्तबक ।


,

अथ वृत्तमेतदवकर्ण्य भीरवे विततान सिन्धुपतये प्र[१] तिश्रुतम् ।
तव गुप्तियुग्ममपि मे भरोऽर्जुनात्स[२]मरे श्व इत्यतिगभीरधीर्गुरु ॥ ५८ ॥
,

अन्येनुरवलम्बितप्रथमशिखरिसानौ भानौ स्कन्धावारयुगवसुवराधिपतियुद्धसन्नाहपैशुन्यलम्पटपटहध्वानतरले सिन्धुराजयुगले शरणागतभरणालकर्माणेन पद्म[३]नेत्रेण भौभद्रवधशोकातिरेकपरिगलित[४]बाष्पपूरपङ्क्त्तिले [५]द्वारदेशे समानीत सौवीरनायकगोपनस्थलदिद्दक्षयेव तुङ्गतरकेतुक्षृङ्गमधिरूढेन कपिपरिवृढेन परिमण्डित [६]मानसगरुडगन्धवहबान्धवै सै[७]न्धवैराहितबन्धन स्यन्दनमधिरुह्य सक्रन्दन


मित्युक्तप्रकारा प्रतिज्ञा अकरोत् । ‘हेति स्यादायुधे वह्निकीले तरणितेजसि’ इति विश्व ॥ ५७ ॥

 अथेति । अय अर्जुनप्रतिज्ञानन्तर एतद्वत्त अर्जुनप्रतिज्ञावृत्तान्त अवकर्ण्य श्रुत्वा भीरवे भयशीलाय सिन्धुपतये सैन्धवाय अतिगभीरा अत्यन्तगम्भीरा धी मन यस्य स गुरु द्रोण । हे सैन्धव, तब अर्जुनात् गुप्त्यो आवरणरक्षयो युग्ममपि श्व समरे मे भर निर्वाझ इत्युक्तप्रकार प्रतिश्रुत अङ्गीकारम् । प्रतिज्ञामिति यावत् । ‘भावत प्रतिश्रवम्’ इति वा पाठ । विततान चत्र्के । ‘कररक्षणयोर्गुप्ति ’ इति विश्व । मञ्जुभाषिणी ॥ ५८ ॥

 अन्येघुरिति । अन्येघु भानौ सूर्ये अवलम्बित आश्रित प्रथमशिख रिण उदयशैलस्य सानु प्रस्थ येन तथोक्ते सति सिन्धुराजयो सैन्धवसमुद्रयो युगले युग्मे स्कन्धावारयो सेनानिवेशयो युगे । उभयस्मिन् कौरवीये पाण्डवीये चेत्यर्थ । वसुधराधिपतीना राज्ञाम् । उभयपक्षाणा दुर्योधनयुधिष्ठिरयोरिति वा । युद्धे सन्नाहस्य उद्योगस्य पैशुन्ये सूचने लम्पटै लालसै । सन्नाहसूचकैरिति यावत् । पटहाना वाद्यविशेषाणा ध्वानै ध्वनिभि तरले चञ्चले सति शरणार्थमागताना भरणे दु खनिवारणे कर्मणि समर्थेन अलकर्मीणेन । ‘कर्मक्षमोऽलकर्मीण’ इत्यमर । पद्मनेत्रेण श्रीकृष्णेन सुभद्राया अपत्यस्य सौभद्रस्य अभिमन्यो वधात् य शोकातिरेक दु खातिशय तेन परिगलितै बाष्पपूरै पङ्किले कर्दमिते द्वारदेशे समानीत सौवीरनायकस्य सैन्धवस्य यद्रोपनस्थल रक्षणदेश तस्य द्रष्टुमिच्छया दिदृक्षयेवेत्युत्प्रेक्षा । तुङ्गतर अत्युन्नत केतो शृङ्ग शिखर अधिरूढेन कपिपरिवृढेन हनुमता परितो मण्डित अलकृत मानसस्य गरुडस्य गन्धवहस्य वायोश्च त्रयाणा बान्धवै । वेगेन सदृशैरित्यर्थ । सैन्धवै अक्ष्वै आहित सपादित बन्धन यस्मिन् तथोक्त्त स्यन्दन रथ अधि-


  1. ‘प्रतिश्रवम्’ इति पाठ
  2. ‘समरेष्वभीरिति’ इति पाठ
  3. ‘भगवता पाणिमित्रतोत्रेण पद्म’ इति पाठ
  4. शूरजनबाष्प इति पाठ
  5. ‘द्वारतले' इतिव पाठ
  6. ‘मानसमागणगरुड इति पाठ
  7. ‘सैन्धवै ’ इति नास्ति कचित्