पृष्ठम्:चम्पूभारतम्.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९२
चम्पूभारते


,

रथादवप्लुत्य गदासखस्तदा विदार्य बालो विजयात्मसभव ।
चकार मन्दाक्षभूतो न केवळ रथानमीषा युधि तानपि क्षणात् ॥५०॥
 बालौ तत कृतरणौ धृतराष्ट्रपौत्रौ
  भीरू पृथग्गमनकर्मणि मन्यमान ।
 पाथोत्मज स तु परस्परसाह्यवन्तौ।
  चक्रे कृतान्तपुरवर्त्मनि गन्तुमग्रे ॥ ५१ ॥
अथ कर्णमुखा महारथास्ते मिलिता कैतवमेत्य यौगपद्यात् ।
सुरनायकपौत्रमेनमस्त्रै स्वयशोभि सह पातयाबभूवु ॥ ५२ ॥
,


भाव । तथा तस्य अभिमन्यो रिपुषु कर्णादिषु विषये निन्दारान् निन्दनवा क्यकलकलान् अभ्यवर्षत् । उदीरयामासेत्यर्थ । एके बहूना युद्धस्य लोकवेदनिषिद्धत्वादिति भाव । अत्र कल्पवृक्षकुसुमवर्षणनिन्दवाक्योदीरणयोर्यौगपद्यात्समुच्चयस्य पुष्पाणा निन्दावाक्याना च वर्षणेन क्ष्लेषभित्तिकाभेदाध्यवसितेनौपम्यस्य गम्यत्वात्तुल्ययोगिताभेदस्य चैकवाचकानुप्रवेशसकर ॥ ४९ ॥

 रथादिति । तदा विजयस्य आत्मसभव अर्जुनपुत्र बाल अभिमन्यु गदा सख सहाय यस्य स । गदापाणि सन्निति यावत् । `राजाह सखिभ्यष्टच्’ इति समासान्तष्टच् । ‘सखा मित्रे सहाये च' इति यादब । रथात् निहताक्ष्वात् अवप्लुत्य अधिस्ह्या । अमीषा कर्णादीना रथान् केवल रथानेव विदार्य निर्भिद्य । मन्दानि शून्यानि अक्षाणि चक्राणि बिभ्रतीति तद्भत न चकार । किंतु तान् कर्णादीनपि युधि मन्दाक्ष ब्रीडा बिभ्रतीति तद्भृत चकार । गदाप्रहारैरित्युभयत्र भाव । अत्र रथाना रथिकानां च प्रकृतानामेव लज्जाया शिथिलचक्राणा च क्ष्लेषभित्तिकाभेदाध्यवसायसहकृतमन्दाक्षभरणेनौपम्यस्य गम्यत्वातुल्ययोगिताभेद । मन्दानि विषयग्रहदुर्बलानि अक्षाणि इन्द्रियाणि चक्षुरादीनि बिभ्रतीति मृत इत्यर्थ । ‘अक्षमिन्द्रियचक्रयो ’ इति विश्व इत्यपि प्राहु । वशस्थम् ॥ ५० ॥

 बालविति । तत स तु पार्थात्मज अभिमन्यु । कृतरणैौ । आत्मना सहेति शेषः । बालौ अतएव धृतराष्ट्रस्य पौत्रौ दुर्योवनदु शासनपुत्रौ द्वौ । पृथक् प्रत्येकम् । गमनकर्मणि परलोकयात्राया भीरू भयशीलो मन्यमान इवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्रम्या । कृतान्तपुरस्य सयमिन्या सबन्धिनि वर्त्मनि मार्गे गन्तु अग्रे परस्पर साह्यवन्तौ । सहायबन्तावित्यर्थ । चक्रे । द्वावप्येकदा जघानेत्यर्थ ॥ ५१ ॥

 अथेति । अथ कर्ण मुख प्रथम येषा तथोक्तास्ते पूर्वीक्त्ता महारथा कैतव दुर्नीतिं एत्य स्वीकृत्य यौगपद्यात् मिलिता एकदैकत्र बास गता सन्त । अस्त्रै बाणै एन सुरनायकपौत्र अभिमन्यु स्वै स्वीयैर्यशोभि सह