पृष्ठम्:चम्पूभारतम्.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८२
चम्पूभारते


इति सुप्रतीकसक्षुभितनिजध्व[१]जिनीकोलाहलसमाकर्णना[२]कुलमानसो वासवसूनुर्महेषुनिषूदितावशेषसशप्तकगणदूरनिरासप्रयुज्यमानवायव्यास्रवेगार्ध विभज्य निजरथाय वितीर्णवानिव तूर्णमासा- द्य निर्वेलभुजगर्वदुर्विलसितौ तौ[३] कुम्भजातकिरातराजौ निरुद्ध्थचिरेण योधयामास ॥

[४]तत ।

,

मनश्च पार्थस्य रथ च भ[५]ङ्क्त्तु मदावलेन्द्रस्य करे प्रवृत्ते ।
सारथ्यचातुर्यवशेन शौरेर्भग्न स तस्यैव मनोरथोऽभूत् ॥ २५ ॥
 ,


मनस वृत्ति अवस्था यस्य तस्य वायुसूनो भीमस्य जङ्घयो जनकस्य वायो गुण गमनवेग तस्य समृद्धि आविरासीत् जाता । पलायितोऽभूदित्यर्थ । अत्र तादृशवस्तुप्रतीकावलोकनस्य पलायनहेतुत्वात्काव्यलिङ्गभेद । ‘वावतो वायुसून ’ इति पाठान्तरत् ॥ २४ ॥

 इतीति । इत्युक्तप्रकारेण सुप्रतीकेन सक्षुभिताया निजाया ध्वजिन्या सेनाया कोलाहलस्य सकुलारावस्य समाकर्णनेन आकुल व्याकुल मानस यस्य स । वसवसूनु अर्जुन महद्भि इषुभि बाणै निषूदितेभ्य निहतेभ्य अवशेषाणा सशप्तकाना नाम त्रैगर्ताना गणस्य दूर निरासे विषये प्रयुज्यमानस्य वायव्यास्त्रस्य यो वेगस्तस्मादर्ध वेग विभज्य । निजाय रथाय वितीर्णवान् दत्तवानिवेत्युत्प्रेक्षा । तूर्ण सत्वरं आसाद्य समीप गत्वा निर्बेलानि अपाराणि भुजग्रो गर्वस्य दुर्विलसितानि दुश्चेष्टितानि ययोस्तौ । कुम्भजात द्रोण किरातराज भगदत्त तौ द्वावपि निस्ध्ध चिरेण योवयामास युद्धमकारयत् । तावात्मनेति शेष । द्रोणभगदत्तावित्यर्थ ।

 तत इत्युत्तरेणान्वय ॥

 मन इति । तत अर्जुननिरोधानन्तर पाथस्य अर्जुनस्य मनश्च रथ च भङ्कु भञ्जयितु मदावलेन्द्रस्य सुप्रतीकस्य करे शुण्डाया प्रवृत्ते व्यापृते सति । शौरे श्रीकृष्णस्य सारथ्ये चातुर्यवशेन नैपुण्यप्रभवेन स अजुनमनोरथभङ्ग विषयक तस्य सुप्रतीकस्य मनोरथ एव भन्नोऽभूत् । मनश्च भग्नोऽभूत् । रथश्च भग्नोऽभूदिति चार्थ । आगच्छतस्तस्य मार्गादन्यतो रथ गमयामासेति परमाथ । अत्र पार्थमनोरथभङ्गार्थमुद्यतस्य सुप्रतीकस्य मनोरथभङ्गवर्णनादनर्थोत्पत्तिरूपो विषमप्रभेद मनस रथस्य कामस्य च त्रयाणा मनोरथशब्दक्ष्लेषभित्तिकाभे दाध्यवसायमूलातिशयोक्त्यनुप्राणित इति द्वयोरङ्गाङ्गिभावेन सकर ॥ २५॥


  1. ‘ध्वजिनीचर’ इति पाठ
  2. ‘समाकुल' इति पाठ
  3. ‘तो’ इति नास्ति कचित्
  4. ‘तत’ इति नास्ति कचित्
  5. ‘इन्तु' इति पाठ.