पृष्ठम्:चम्पूभारतम्.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८०
चम्पूभारते


सपादितसमरसागरावर्तवशवदफेनकूटशोभानि सकलदि डश्रुखघण्टा पथजाङ्धिकघण्टाभरणरणितबधिरीकृताष्टलोकपालपुरजनानि [१]निबिडितसुरसमाजसमाक्रान्तगगनमण्डपसधिबन्धस्थिरीकरणाय [२]दत्तायतेन्द्रनीलस्तम्भानिव शुण्डादण्डानूर्ध्व[३]मुन्नमयमानानि समस्तानि हास्तिकानि पुरस्ताद्विस्तार्य रणमत्तो भगदत्त सुप्रतीकमधिरूढो हठाद्भीमभिदुद्राव ॥

घोरेऽभियाते सति सुप्रतीके ढू[४]रेऽपसस्त्रुर्द्विषता बलानि ।
पर्रश्वधास्त्रे पतिते ज[५]लानि पत्युर्नदीनामिव पश्चिमस्य ॥ २१ ॥


सुप्रतीक नाम औपवाह्य गज अधिरूढ सन् कर्णौ तालौ व्यजने इव तयो सबन्धिन्या समीरणसमृध्धा वायुमण्डल्या परिणताना सजाताना चक्रवाताना गर्भेषु मध्येषु परिभ्रमद्धि रथकेतुषु पताकापटाना सहस्त्रै सपादिता समरस्यैव सागरस्य आवर्ताना भ्रमीणा वशवदानि । परिभ्रमन्तीत्यर्थ । यानि फेनकूटानि तेषा शोभा यैस्तथोक्तानि सक्लानि दिशा सुखानि अग्राण्येव घण्टापथा महामार्गा तेषु जाङ्केिके वेगेन गच्छद्भि घण्टाभरणाना रणितै घणघणारावै बधिरीकृता । विदारितकर्णा इत्यर्थ । अष्टाना लोकपालाना इन्द्रादीना पुरेषु अम- रावत्यादिषु जना यैस्तथोक्तानि । निबिडितै सान्द्रीभूतै सुराणा समाजै सघै सम्यक आक्रान्तस्य गगनस्यैव मण्डपस्य सधिबन्धेषु स्थिरीकरणाय दाढर्थसपाद नाथं दत्तान् स्थापितान् आयताश्च इन्द्रनीलस्तम्भानिब स्थितान् शुण्डा दण्डा इव तान् । ‘शुण्डा करिकरे मध्ये’ इति विश्व । उन्नमयमानानि ऊर्ध्व प्रसारयन्ति समस्तानि हास्तिकानि गजबृन्दानि पुरस्तात् विस्तार्य हठात् बलात् भीम अभिदुद्राव धावितवान् ।

 घोर इति । घोरे भयकरे सुप्रतीके भगदत्तगजे अभियाते प्राप्ते सति द्विषता बलानि चतुर्विधानि परश्वध इत्यस्त्रे आयुधे परशुरामीये पतिते प्रविष्टे सति पश्चिमस्य नदीना पत्यु समुद्रस्य जलानीव दूरे अपसडु अपचक्रमु । ‘अम्बुपूरा ' इति पाठे उपमाया भिनलिकाख्य इति दोषापत्ति । परश्वघोऽस्या स्तीति परश्वध परशुराम । अर्शआदिात्वर्थीयोऽच । तस्यास्त्र इत्यर्थ । तेन,न्यूनपदत्वाख्यदोष इत्यपि प्राहु । पुरा किल परशुरामेण विप्रदत्ताया क्षितौ स्थितिं जुगुप्समानेन वासदेशयाथितोऽव्धि तत्परश्वधपरिक्षिप्त सुदूरमपससारेति पौराणिका ॥ २१ ॥


  1. ‘निबिड ' इति पाठ
  2. ‘दत्तानि द्र’ इति पाठ
  3. ‘उन्नमय्य’ इति पाठ
  4. ‘दूर ससप द्विषता बलौघ’ इति पाठ
  5. ‘अम्बुपूरा’ इति पाठ ।