,
तस्याथ रङ्गभुवि सत्यजितो[१]त्तमाङ्ग
बाष्पाम्बुभि सह पपात युधिष्ठिरस्य ॥ १८ ॥
उच्चया त्वरया तस्मिन्नुपकण्ठ समागते ।
पार्थस्य पश्यतोऽग्रे त प्राणा अपि तथाचरन् ॥ १९ ॥
तस्याथ द्वेषिसे [२]नाजलधिकवलनात्कुम्भयोनित्वकीर्ति
स्पष्टीकर्तु स्वकीयामिव कुतुकवत पार्श्वमभ्येत्य वे[३]गात् ।
भीमो रथ्यानमथ्नाद्द्रुपदतनुभव सूदयामास सूत
कोदण्ड केतुदण्ड द्वयमपि [४]शकलीचक्रतुर्दस्त्रपुत्रौ ॥ २० ॥
,
ततस्तादृश कुम्भसभवस्याभिषङ्गममिवीक्ष्य क्रोधनतया कर्णतालसमीरणसमृद्धिपरिणतचक्रवातगर्भपरिभ्रमद्रथकेतुपताकापटसहस्र-
ह्यातिर्यग्दारुविशेषमेव विद्धा निभिद्य चिरेण निर्घूनितेन व्याकुलीकृतेन अतएव सरषा सक्रोधेन गुरुणा द्रोणेन निकृत्त छिन्न तस्य सत्यजित उत्तमाङ्ग शिर रङ्गभुवि युद्धभूमौ । ‘रङ्गो रणतले रागे’ इति विश्व । युधिष्ठिरस्य बाष्पाम्बुभि सह पपात । ‘युद्धा’ इति पाठोऽसगतत्वादुपेक्ष्य ॥ १८ ॥
उच्छयेति । तस्मिन् द्रोणे उच्चया महत्या त्वरया उपकण्ठ समीप प्रति समागते सति अग्रे पुर । स्वसमीप इति यावत् । त द्रोण पश्यत पार्थस्य युधिष्ठिरस्य प्राणा अपि तथा उक्त्तप्रकार आचरन् उपकण्ठ कण्ठसमीप समागता इत्यर्थ । क्ण्ठगतप्राणो भीत्याभूद्धर्मराज इत्यर्थ । अत्र द्रोणस्य युधिष्ठिरप्राणाना च क्ष्लेषभित्तिकालब्धैक्येनोपकण्ठसमागमनेन बर्मेणौपम्यस्य गम्यत्वात्केबलप्रकृतास्पदस्तुल्ययोगिताभेद ॥ १९ ॥
तस्येति । अथ समीपागमनानन्तर द्वेषिणा सेनाया एव जलधे कवलनात् क्षपणात् स्खकीया कुम्भयोनित्वेन अगस्त्यभावेन घटोत्पत्त्या च या कीर्ति ता स्पष्टीकर्तु कुतुकवत कुतूहूलिन इव स्थितस्येत्युत्प्रेक्षा उत्तरूपकानुप्राणिता । द्रोणस्य पार्श्व प्रति वेगात् अभ्येत्य आगत्य । ‘कोपात्’ इति पाठान्तरम् । भीमो रथ्यान् अमथ्नात् हन्ति स्म । मथ्नते कर्तरि लड् । द्रुपदतनुभव धृष्टद्युम्न सूत सारथिं सूदयामास निजघ्ने । द्रस्त्रयो अश्विनो पुत्रौ नकुल सहदेवश्च कोदण्ड केतुदण्द च द्वयमपि शकलीचक्रतु चिच्छिदतु । स्रग्धरा ॥ २० ॥
तत इति । तत अनन्तर तादृश उक्तविध कुम्भसभवस्य द्रोणस्य अभिषङ्ग पराभव अभिवीक्ष्य क्रोधनतया अतिक्रोधेन रणे मत्त उन्मादित भगदत्त