पृष्ठम्:चम्पूभारतम्.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७७
दशम स्तबक ।


,

दाता ग्रहीता [१]च धनजयो वेत्युद्दमशब्दो भु[२]वनेऽस्ति यस्य ।
विस्फारघोषो धनुषोऽस्य भूयान्विनृम्भते स्म द्विषतामसह्य ॥ २४ ॥
नामैषा मे ज्यायस पुण्यकीर्तेरासीदिष्ट मात्स्यपुर्यामितीव ।
गाण्डीवोत्थैरेष बाणैर्हताना कङ्कान्क्रव्यैर्विद्विषा पर्यतार्प्सीत्॥१५॥
,

 तदनु सव्यसाचिशरवीचीकृतभुदम्भविजम्म कुम्भसभव समराय परिगृहीतेषु सविधानेषु [३]तूणीरमात्रमेव [४]प्रतिभटोन्मुख विधानैर्योधै साक चण्डभानुश्चरमगिरेरिव स्वयमपि [५]कटकसीमनमसीदत् ॥


 दातेति । यस्य गाण्डीवस्य दाता च धनजय ग्रहीता प्रतिग्राही च धनजयो वा वनजय एवेत्यर्थ ‘वा स्याद्विकल्पोपमयोरेवाथ च समुच्चये' इत्यमर । एकोऽग्नि , अपरोऽजुन इति तत्त्वम् । ‘धनजयोऽर्जुने वहौ' इत्यमर । इत्युक्त प्रकार उद्दाम महान् शव्धते कीर्त्यत इति शब्द यस्य भुवने अस्ति । प्रसिद्ध इत्यर्थ । तस्यास्य वनुष गाण्डीवस्य सचन्धी भूयान् गम्भीर विस्फारघोष गुणटकार द्विषता असह्य सोटुमशक्य । कणकठोर सन्निति यावत् । विजृम्भते स्म । ‘धनजयौ’ इति द्विवचनान्तपाठस्तु दातृप्रतिग्रहीत्रो द्वित्वेन प्रतीत्याधायक कविविवक्षितविरोधाभासास्फोरकत्वात् उपेक्ष्य ॥ १४ ॥

 नामेति । एषा कङ्काना नाम कङ्ग इति सज्ञा मे मम सबन्धिन पुण्यकीर्ते ज्यायस ज्येष्ठस्य धर्मराजस्य मात्स्यपुर्या विराटनगरे । तत्रावस्थानसमय इति भाव । इष्ट काङ्क्षित आसीत् । इत्युक्तहेतोरिवेत्युत्प्रेक्षा । एषोऽर्जुन गाण्डीवादुत्यै प्रयुक्त्तै बाणै हताना विद्विषा क्रव्यै मासै कङ्कान् गृध्रान् पर्यतार्प्सीत् । तृप्यते परिपूर्वाश्रुटि सिचि वृद्धि । शालिनी ॥ १५ ॥

 तन्विति । तदनु सव्यसाचिन अर्जुनस्य शराणा वीचिभि परम्पराभि नीचीकृता क्षीणीभूता भुजयो दम्भविजृम्भा दर्पचेष्टित यस्य तथोक्त्त कुम्भसभव द्रोण चण्डभानु सूर्यं चरमगिरे अस्तशैलस्य कटकसीमान नितम्बप्रदेशमिव स्वस्यमपि समराय युद्ध कर्तुमिति ‘क्त्रियर्थ-' इत्यादिना चतुर्थी । परिगृ हीतेषु सविधानेषु साधनाना मध्य इत्यर्थ । तूणीरमात्र एक निषङ्गमेव प्रतिभटाना शत्रुवीरणा उन्मुख अभिमुख विदधानै कुर्वाणै । पृष्ठ प्रकाश्य पलायमानैरित्यर्थ । योधै साक भटै सह कटकसीमान शिबिरप्रदेश प्रति आसीदत् प्राप्त वान् । ‘कटक वलये सानैौ राजधानीनितम्बयो ” इति वैजयन्ती । अत्र प्रकृत योरेव भारद्वाजभास्करयो क्ष्लेषभित्तिकालव्धैक्यकटकसीमाप्रवेशेनौपम्यस्य गम्य त्वातुल्ययोगिताभेद । एव कुम्भे सभवति वर्तत इति कुम्भसभव । तत्परिमि


  1. ‘अपि धनजयाविल्युझमशब्दौ’ इति पाठ
  2. ‘भुवनेषु’ इति पाठ
  3. ‘तूणी' इति पाठ
  4. ‘प्रतिभटाभिमुख’ इति पाठ
  5. स्वकटकस्य सीमान’ इति पाठ