पृष्ठम्:चम्पूभारतम्.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७३
दशम स्तबक ।


 शौरिप्रणुन्नहयहेषितशब्दमिश्रो
  न क्षूयते यदि नरस्य शरासघोष ॥ ४ ॥
सर्वास्त्रविद्यासहवाससौख्यसकेतभूमेरपि तस्य वाचम् ।
प्रत्युद्ययौ ता परिषद्गताना तिर्यक्प्रचार शिरसो नृपाणाम् ॥ ५ ॥
 अथ द्रुपजद्रोणौ [१]रथाश्वगजसवृतौ ।
 बद्धायतस[२]मुत्साहौ युद्धाय निरगच्छताम् ॥ ६ ॥
 नामाक्षराड्तिनदीसुतबाण[३]पूर्णे
  रडगेवतेरतुरुभावपि राजवर्गौ ।
 सक्ष्वेलितौ सबिरुदौ स[४] महाट्टहासौ
  [५]सास्फालितासशिखरौ सहवल्गनौ तौ ॥ ७ ॥



घोष गाण्डीवगुणटकार न क्ष्रूयते यदि । अस्माभिरिति शेषः । तदा ते तव सबन्धि अखिल काक्ष्क्षित उक्तरीत्या तत्समर्पणरूप कर्तुं शक्यम् । हि खल्वये । साजुनस्य तस्य ग्रहृण देवानामप्यशक्यमिति भाव ॥ ४ ॥

 सर्वेति । सर्वासा अस्त्रविद्याना सहवासेन यत्सौख्य तस्य सकेतभूमि परिनिदिष्टस्थान तस्यापीत्यपिना किमुतान्यस्येत्यर्जुनस्य शौयात्वर्षो ध्वन्यते । तस्य द्रोणस्य सबन्धिनी ता वाच सार्जुनस्य धर्मराजस्य ग्रहणमशक्यभियात्मिका प्रति परिषद्ननाना सभास्थिताना नृपाणा शिरस तिर्यक्प्रचार क्ष्लाघाकम्प प्रत्युद्ययौ उचितमेवोत्तर दत्तमिति क्ष्लाघयामासु । सर्वेऽपि सन्या इत्यर्थ ॥५॥

 अथेति । अथ द्रुपदज धृष्टधुम्न द्रोणश्च तावुभौ पाण्डवकौरवसेनापती बद्ध आयत विस्तीर्णक्ष्च सम्यगुत्साह युद्धोद्यम याभ्या तथोक्त्तौ सन्तौ अत- एव रथै अक्ष्वै गजैश्च सवृतौ सन्तौ युद्धाय युद्ध कर्तु निरगच्छता निर्गत- वन्तौ ॥ ६ ॥

 नामेति । अपि किच। तावुभौ पाण्डवकौरवीयौ राज्ञा वगौ सघौ क्ष्वेलितेन सिंहनादेन सहितौ सक्ष्वेलितौ, बिरुदै छत्रचामरादिराज्यचिहै सहितौ सबिरुदौ, महता अट्टहासेन सहितौ समहाट्टहासौ, आस्फालितौ सशब्द हस्तस्थुष्टौ असशि- खरौ भुजशिरोभौ ताभ्यास सहितौ सास्फालितासशिखरौ, वल्गनेन लङ्घन- गमनेन सहितौ सहवलानौ च सन्तौ नामक्षराङ्कितै भीष्मेति वर्णचिह्नितै नदी- सुतस्य भीष्मस्य बाणै पूर्णं रङ्गे युद्धभुवि अवतेरतु प्रविशतु ॥ ७ ॥


  1. ‘रथद्विपश्यावृतैौ’ इति पाठ
  2. ‘महोत्साहौ’ इति पाठ
  3. ‘कीर्णे' इति पाठ
  4. ‘समदाट्टहासौ’ इति पाठ
  5. ‘सस्फालना’ ‘सस्फालिता' इति च पाठ .