पृष्ठम्:चम्पूभारतम्.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशमः स्तबकः ।


अपरेऽहनि कौरवश्चमूनामधिपत्वे परिकल्प्य कुम्भयोनिम् ।
पुरतो निजगाद भीष्मपाताद्रु[१]दितोच्छूनदृशा नराधिपानाम् ॥१॥
 कुम्भोत्पत्त्या प्रसिर्द्धो मुनि[२]वृषभ इव क्ष्माधर विन्ध्यसज्ञ
  लोके तादृग्विधस्व युधि निजमहसा भू[३]भृत स्तम्भयित्वा।
 जीमग्राह गृहीत्वा विनमितवदन लज्जया धर्मसूनु
  पद्भथामेव प्रचार विदधतमधुना लीलया मेऽर्पयेति ॥ २ ॥
उदित तदिद निशम्य गोष्ठषामुचितज्ञ करमुन्नमय्य किचित्
गुणसनिभविक्रमस्तदानी गुरुरेषोऽपि कुरूद्वह बभाषे ॥ ३ ॥
 कर्तु हि शक्यमखिल नृप काङ्क्षित ते
  धर्मात्मजे परिवृतेऽपि धराधिनाथै ।


 अपर इति । अपरेऽहनि परस्मिन् दिने । कौरव दुर्योधन कुम्भयोनि द्रोणम् । चमूना अधिपस्य भाव अधिपत्व तस्मिन् परिक्त्प्य । तदधिप कृत्वेति यावत् । भीष्मस्य पाताद्वदितेन उच्छूने स्थूलीभूते दृशो नेत्रे येषा तेषा नराधिपाना खपक्षाणा पुरत अग्रे निजगाद उक्त्तवान् । तामिति शेष ।

 कुम्भेति । विन्ध्थ घेटे उत्पत्त्या जन्मना प्रसिद्ध मुनिपृषभ मुनिश्रेष्ठ अगस्त्य विन्ध्य इति सज्ञा यस्य त क्ष्माधर शेलमिव लोके तादृशी विधा प्रकार कुम्भोत्पत्तिरूप यस्य तथोक्त्त । त्वमपि महसा स्वतेजसेति पूर्वत्रापि योज्यम् । युधि भूभुत शैलान् शत्रुराजाश्च स्तम्भयित्वा । ‘भूभृन्नरेन्द्रशैलेषु इति विश्व । जीवग्राह गृहीत्वा । जीवन्त गृहीत्वेत्यर्थ । धर्मसूनोरेवार्थादत्रापि कर्मत्वम् । ‘समूलाकृतजीवेषु हन्कृञ्ग्रह ' इति णमुल्। कषादित्वादनुप्रयोग । अतएव लज्जया विनामितवदनम्। किच पञ्चमेवप्रचार गमन विदधत कुर्वन्तम् । पादचारिणमिति यावत् । धर्मसूनु धर्मराज मे मद्य लीलया अधुना अर्पय इति जगादेति पूर्वत्रान्वय । उपमालकार । स्त्रग्धरव्रूत्तम् ॥ २ ॥

 उदितमिति । गुहेन स्क्रन्देन सनिभ तुल्य विक्रम यस्य स । उचितज्ञ अतएव एष गुर द्रोणोऽपि तदानी गोष्ठय सभाया तदिद दुर्योवनोक्त उदित वाक्य निशम्य कर किचिदुन्नमरय उद्धृत्य कुरूद्वह दुर्योधन प्रति बभाषे । औपच्छन्दसिकम् ॥ ३ ॥

 कर्तुमिति । हे नृप दुर्योधन, धर्मात्मजे धर्मराजे धराधिनाथै राजभि विराटादिभि परिवृते सत्यपि । शौरिणा श्रीकृष्णेन प्रणुन्नाना चोदिताना हयाना अर्जुनरथ्याना हेषितशब्देन मिश्र मिलित नरस्य अर्जुनस्य शरास


  1. ‘उदित’ इति पाठ
  2. ‘त्र्क्षषभ' इति पाठ
  3. ‘भूमृतम्’ इति पाठ