पृष्ठम्:चम्पूभारतम्.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६७
नवम स्तबक ।


 तदनु समरसमुखीनवैरिभटप्राणपरि[१]मोक्षणोन्मुखशिलीमुखप्रस्थानसमयस[२]मापृच्छनपात्रीकृतकर्णपुटैर्बलवैरिनगरवास्तव्यवा[३]रविलासिनीजनपाणिपङ्केरूहपरिगलितपारिजातप्रसवसह[४]पतितचञ्चरीकपुञ्जमञ्जुगु[५]ञ्जितव्याञ्जितभेदकुरबन्वैर्वे[६]गापतितविशिखविघट्टनविप[७]र्यस्तमुकुटविप्रकीर्णविविधमुक्ताफळशङ्कावदान्यरणश्रमवारिशीकरनिकरकोरकितनिटिलभागै रोषातिरेकव्यतिकरितदशनावलिशनपुनरुक्तरक्तिमाधरैरयुतेन राज्ञा शिरोभि कल्पान्तरुद्बन्धु सुरसिन्धुसूनु[८]रय वसुधरा ब[९]न्धुरयाचकार ।

नद्या सुतेन जनितैर्नवदेववर्गै
 सान्द्रं स्वधाभ्नि सति सकुचितस्थितीनाम् ।


 तदन्विति । तदनु अनन्तर कल्पान्ते प्रलयकाले रुद्रस्य बन्धु सदृश अय सुरसिन्धुसूनु भीष्म समरे युद्धे समुखीनाना अभिमुखमवस्थितान्म वैरिटाना सबन्धिना प्राणाना परिमोक्षणे त्याजने उन्मुखाना प्रवणाना शिलीमुखाना बाणाना प्रस्थानसमये प्रयाणकाले समापृच्छनस्य प्रश्नस्य पात्रीकृतानि समुखीकृतानि कर्णपुटानि येषा तै । बलवैरिनगरे स्वर्गे वास्तव्याना निवसन्तीना वारविलासि नीजनाना अप्सरसा पाणिपङ्केरुहे कमले इव ताभ्या परिगलितै पारिजातप्र सवै सह पतिताना सहागताना चञ्चरीकपुञ्जाना भृङ्गसमूहाना मञ्जुना मनोहरेण गुञ्जितेन झकारेण व्यजित प्रकटित भेद मियो वैलक्षण्य येषा तथोक्त्ता चिकुरबन्धा घम्मिला येषा तै । वेगेन आपतितै लग्नै विशिखै बाणै विघट्टनेन निर्घातेन विपर्यस्तेभ्य विषमितेभ्य मुकुटेभ्य किरीटेभ्य विप्रकीर्णाना गलिताना विविधाना मुक्त्तफलानाशङ्काया ऊहस्य वदान्यै दातृभि । तद्भान्तिदायिभिरिति यावत् । रणात् युद्धात् य श्रम तत्सबन्धिना वारिशी करनिकरेण स्वेदजलबिन्दुवृन्देन कोरकित्त सजातकोरक इव स्थित निटिलभग भालदेश येषा तै । रोषातिरेकेण कोपातिशयेन व्यतिकरितया सधटितया दशनावल्या दन्तपङ्क्त्तया दशनेन द्विगुणित पुनरुक्त रक्त्तिमा आरुण्य यस्य तादृश अधर अधरोष्ठ येषा तै । अयुतेन दशभि सहस्त्रै राज्ञा शत्रुभूपाना शिरोभि वसुधरा भूमिं बन्धुरयाचकार विषमिता चक्रे । दशसहस्राणि शत्रूनवधीदित्यर्थ ॥

 नद्य इति । नघा सुतेन भीष्मेण जनितै रणे महावीरान् निहत्य निमितै ।


  1. मोषण’ इमि पाठ
  2. ‘समापृच्छन’ इति पाठ
  3. ‘वारवनिताजनता' इति पाठ
  4. ‘आपतित’ इति पाठ
  5. ‘कूजित’ इति पाठ
  6. ‘वेगादापतित’ इति पाठ
  7. ‘विपर्यस्तास्तविकटकुटविश्ङ्कट (विटङ्क) विप्रकीर्णमुक्ता’ इति पाठ
  8. ’अथ’ इति नास्ति कचित्
  9. ‘ब धुरयाक्त्रे' इति पाठ