तत । |
आरात् समीप एत्य । पदत्रयमिद प्रथमान्तद्वितीयान्तद्वयपञ्चकेऽपि योज्यम् । इत्थ द्वन्द्वीभूयेत्यर्थ । हन्तृत्वशैल्या हिंसाकर्तुत्वस्वभावस्य वध्यत्वशैल्या हिंसाश्रयत्वस्वभावस्य च द्वयोरपि सावारण्ये तुल्यभावे । प्रतिष्ठा स्थिति अभिविदधु चक्त्रु । परान्घ्नन्त तैर्हन्यमानाश्चभूवन्नित्यर्थ । अत्रैकैकस्मिन्हन्तृत्ववध्यत्वरूपानेकगुणयौगपद्यात्समुच्चयभेद । स्रग्धरा ॥ ३१ ॥
धृष्टद्युम्नेनेति । तत धृष्टद्युम्नेन पाण्डवसेनानायकेन उत्कृत्तानि छिन्नानि मर्माणि आयु स्थानानि यस्या तथोक्ताम् । अतएव हाहाशब्दै दीना स्वीया सेना अत्रे दृष्ट्वा । भीष्म घोर दारुण घोष हुकार यस्यास्तथोक्ता कोद ण्डस्य चापस्य ज्या गुण आमृशन् टकारयन् सन् । पार्थसैन्य पाण्डवसेना प्राविशत् प्रविष्टवान् । अत्र तादृग्दीनसेनावलोकनस्य तथा भीष्मप्रवेश प्रति हेतु त्वात् पदार्थहेतुक काव्यलिङ्गम्। शालिनीवृत्तम् ॥ ३२ ॥
ससिंहनाद इति । सिंहनादेन सहिते ससिंहनादे सरित गङ्गाया कुमारे सुते भीष्मे प्रथम आदौ चाप समाकृष्य विमुक्त्तै प्रयुक्त्तै शरै परान् शत्रून वरीतु वारयितु प्रवृत्ते उघुक्ते सति । अप्सरोभि वरान् पतीन् वरीतु ववले व्यापृतम् । वलतेर्भावे लिट् । अप्सरोभिरपि प्रथम वरान् वरीतु ववल इत्यपि प्राहु । तत पूर्व महावीराणा नाशाभावादिति भाव । अत्र भीष्मपर वारणाप्सरोवरवरणक्रिययोर्यौगपद्यात्समुच्चय ॥ ३३ ॥
पृथेति । तस्य भीष्मस्य पृषत्कवर्या बाणश्रेष्ठा पृथक् पृथक् प्रत्येक प्रत्येकम्। एकैकश इति यावत् । पृथासुताना पाण्डवाना पृतनान्तराले सेनामध्ये सहस्र द्विपान् गजान् , सहस्र तुरगान् अश्वान् । उभयत्र तदारूढानिति ध्येयम् । सहस्र भटान् ' पदातींश्च पतितान् निहतान् अकार्षु चक्त्रु ॥ ३४ ॥
सिन्धोरिति । जमदग्निसूनो परशुरामस्य प्राणान् विलिह्य सस्पृश्य धिक