पृष्ठम्:चम्पूभारतम्.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६४
चम्पूभारते

 समरभुवि वभासे सादिनो भूषणाना
  मरकतमणिभासा मध्यग कश्चिदश्व ।
 सकलभटविमर्दैश्चञ्चलाद्भि[१]न्नवाहा-
  न्निपतित इव रथ्यो नेतुरह्मा शताङ्गात् ॥ २९ ॥
 आयोधना [२]ङ्कणजुषामसृगापगाना-
  मावर्तगर्भ[३]पतिता कुणपा हयानाम् ।
 सबभ्रमुर्विहितपूर्वपाददाना
  शिक्षाविशेषमिव मण्डलचङ्क्त्तमेषु ॥ ३० ॥
धन्वी धानुष्क [४]मारासिभृतमान्सिमान्कुन्तिन कुन्तधारी
 चक्रास्त्र चक्रहेतिर्गदिनमपि गदापाणिरन्योन्यमेत्य ।
स्वस्वास्त्राणा प्रयोगे दृढपरिचितयो हन्तृवध्यत्वशैली-
 साधारण्ये प्रतिष्ठाम[५]भिविदधुरमी द्वन्द्वयोधाग्रगण्या ॥ ३१ ॥


 समरेति । सादिन तौरगिफस्य भूषणाना कटकमकुटादीना ये मरकतमणय गारुत्मतानि तेषा भासा श्यामप्रभाणा मध्य गच्छति प्राप्नोतीति मध्यग । ताभि श्यामीभूत इत्यर्थ । कश्चिदश्व सकलाना बहूना भटाना अपरावृत्यमृ- ताना विमदै निर्गमनजन्यै चञ्चलात् कम्पितात् अतएव भिन्न मुक्तबन्धन वाह रथ्य यस्य तस्मात् । अद् नेतु सूर्यस्य शताङ्गात् रथात् समरभुवि युद्ध- देशे निपतित रथ्य रथाश्व इवेत्युत्प्रेक्षा । बभासे रराज । मालिनी ॥ २९ ॥

 आयोधनेति । आयोधनाङ्गणजुषा युद्धदेशगताना असृगापगाना रक्तन दीना आवर्तगर्मेषु जलश्रममध्येषु पतिता हयाना अश्वाना कुणपा शवानि । मण्डलचङ्क्त्रमेषु च चक्राकृतिगतिविशेषेषु विषये पूर्व शिक्षाकाळे विहित अभ्यस्त विहितपूर्व शिक्षाविशेष उपाददान स्वीकुर्वाणा इवेत्युत्प्रेक्षा । सबभ्रमु भ्रमन्ति स्म ॥ ३० ॥

 अथैकेन पादातयुद्धमाह-धन्वीति । अथ स्वस्य स्वस्य सबन्धिना अस्वी- यान स्वीयानामिति वा अस्त्राणामायुवाना प्रयोगे प्रहरणे विषये दृढा अवि स्मृता परिचित अभ्यास येषा तथोक्ता । अत एव अमी द्वन्द्व अनुरूप यथातथा युध्यन्त इति द्वन्द्वथोवा तेषा अग्रगण्या श्रेष्ठा वन्वी धनुर्धर धानुष्क धनुर्धरम्, असिमान् खङ्गधर असिभृतम्, कुन्तधारी कुन्तिनम्, चक्र हेति आयुव यस्य स चक्रास्रम् , गदा पाणौ यस्य स गदिनमपि । अन्योन्य


  1. ‘बिम्भभेदे’ इति पाठ
  2. ‘अङ्गण’ इति पाठ
  3. ‘गत’ इति पाठ
  4. ‘अगात्' इति पाठ
  5. ‘अथ विदधु ’ इति पाठ